Sukta 1.141
वि यदस्थाद्यजतो वातचोदितो ह्वारो न वक्वा जरणा अनाकृतः । तस्य पत्मन्दक्षुषः कृष्णजंहसः शुचिजन्मनो रज आ व्यध्वनः ॥
वि यदस्था॑द्यज॒तो वात॑चोदितो ह्वा॒रो न वक्वा॑ ज॒रणा॒ अना॑कृतः । तस्य॒ पत्म॑न्द॒क्षुष॑: कृ॒ष्णजं॑हस॒: शुचि॑जन्मनो॒ रज॒ आ व्य॑ध्वनः ॥
ví yád ásthād yajató vā́ta-codito hvāró ná vakvā́ jaráṇā ánā́kṛtaḥ | tásya pátman dákṣuṣaḥ kṛṣṇá-jaṃhasaḥ śúci-janmano rája ā́ vyàdhvanaḥ ||
When he stands forth—adorable, driven by the Breath—like a swift steed, a singer not fashioned by decay, then of that seer-force, born of purity yet with strides through the dark, the firm track is opened across the spaces.
वि । यत् । अस्था॑त् । य॒ज॒तः । वात॑ऽचोदितः । ह्वा॒रः । न । वक्वा॑ । ज॒रणाः॑ । अना॑कृतः । तस्य॑ । पत्म॑न् । द॒क्षुषः॑ । कृ॒ष्णऽजं॑हसः । शुचि॑ऽजन्मनः । रजः॑ । आ । विऽअ॑ध्वनः ॥वि । यत् । अस्थात् । यजतः । वातचोदितः । ह्वारः । न । वक्वा । जरणाः । अनाकृतः । तस्य । पत्मन् । दक्षुषः । कृष्णजंहसः । शुचिजन्मनः । रजः । आ । विअध्वनः ॥vi | yat | asthāt | yajataḥ | vāta-coditaḥ | hvāraḥ | na | vakvā | jaraṇāḥ | anākṛtaḥ | tasya | patman | dakṣuṣaḥ | kṛṣṇa-jaṃhasaḥ | śuci-janmanaḥ | rajaḥ | ā | vi-adhvanaḥ