Sukta 1.141
आदिन्मातॄराविशद्यास्वा शुचिरहिंस्यमान उर्विया वि वावृधे । अनु यत्पूर्वा अरुहत्सनाजुवो नि नव्यसीष्ववरासु धावते ॥
आदिन्मा॒तॄरावि॑श॒द्यास्वा शुचि॒रहिं॑स्यमान उर्वि॒या वि वा॑वृधे । अनु॒ यत्पूर्वा॒ अरु॑हत्सना॒जुवो॒ नि नव्य॑सी॒ष्वव॑रासु धावते ॥
āt ín mātṝ́r ā́viśad yā́sv ā́ śucír áhiṃsyamāna urviyā́ ví vāvṛdhe | ánu yát pū́rvā áruhat sanājúvo ní návyasīṣv ávarāsu dhāvate ||
Then he enters the Mothers in whom he is set—the pure one, unharmed—he widens himself in the vastness. Following the earlier tracks that the ancient ones mounted, he runs downward into the ever-new and lower forms, to awaken what is still concealed.
आत् । इत् । मा॒तॄः । आ । अ॒वि॒श॒त् । यासु॑ । आ । शुचिः॑ । अहिं॑स्यमानः । उ॒र्वि॒या । वि । व॒वृ॒धे॒ । अनु॑ । यत् । पूर्वा॑ । अरु॑हत् । स॒ना॒ऽजुवः॑ । नि । नव्य॑सीषु । अव॑रासु । धा॒व॒ते॒ ॥आत् । इत् । मातॄः । आ । अविशत् । यासु । आ । शुचिः । अहिंस्यमानः । उर्विया । वि । ववृधे । अनु । यत् । पूर्वा । अरुहत् । सनाजुवः । नि । नव्यसीषु । अवरासु । धावते ॥āt | it | mātṝḥ | ā | aviśat | yāsu | ā | śuciḥ | ahiṃsyamānaḥ | urviyā | vi | vavṛdhe | anu | yat | pūrvā | aruhat | sanājuvaḥ | ni | navyasīṣu | avarāsu | dhāvate