Sukta 1.141
प्र यत्पितुः परमान्नीयते पर्या पृक्षुधो वीरुधो दंसु रोहति । उभा यदस्य जनुषं यदिन्वत आदिद्यविष्ठो अभवद्घृणा शुचिः ॥
प्र यत्पि॒तुः प॑र॒मान्नी॒यते॒ पर्या पृ॒क्षुधो॑ वी॒रुधो॒ दंसु॑ रोहति । उ॒भा यद॑स्य ज॒नुषं॒ यदिन्व॑त॒ आदिद्यवि॑ष्ठो अभवद्घृ॒णा शुचि॑: ॥
prá yat pitúḥ paramā́n nīyáte páry ā́ pṛkṣúdhó vīrúdhó dáṃsu rohati | ubhā́ yád asya jánuṣaṃ yád ínvata ād íd yáviṣṭho abhavad ghṛṇā́ śúciḥ ||
When he is led forth from the highest Father, around him the nourishing growths, the plants, rise by his skill. When both his births are set in motion, then indeed the youngest becomes pure radiance, blazing with ardour.
प्र । यत् । पि॒तुः । प॒र॒मात् । नी॒यते॑ । परि॑ । आ । पृ॒क्षुधः॑ । वी॒रुधः॑ । दम्ऽसु॑ । रो॒ह॒ति॒ । उ॒भा । यत् । अ॒स्य॒ । ज॒नुष॑म् । यत् । इन्व॑तः । आत् । इत् । यवि॑ष्ठः । अ॒भ॒व॒त् । घृ॒णा । शुचिः॑ ॥प्र । यत् । पितुः । परमात् । नीयते । परि । आ । पृक्षुधः । वीरुधः । दम्सु । रोहति । उभा । यत् । अस्य । जनुषम् । यत् । इन्वतः । आत् । इत् । यविष्ठः । अभवत् । घृणा । शुचिः ॥pra | yat | pituḥ | paramāt | nīyate | pari | ā | pṛkṣudhaḥ | vīrudhaḥ | dam-su | rohati | ubhā | yat | asya | januṣam | yat | invataḥ | āt | it | yaviṣṭhaḥ | abhavat | ghṛṇā | śuciḥ