Sukta 1.141
निर्यदीं बुध्नान्महिषस्य वर्पस ईशानासः शवसा क्रन्त सूरयः । यदीमनु प्रदिवो मध्व आधवे गुहा सन्तं मातरिश्वा मथायति ॥
निर्यदीं॑ बु॒ध्नान्म॑हि॒षस्य॒ वर्प॑स ईशा॒नास॒: शव॑सा॒ क्रन्त॑ सू॒रय॑: । यदी॒मनु॑ प्र॒दिवो॒ मध्व॑ आध॒वे गुहा॒ सन्तं॑ मात॒रिश्वा॑ मथा॒यति॑ ॥
nír yad ī́ṃ budhnā́n mahiṣásya várpasa īśānā́saḥ śávasā kránta sū́rayaḥ | yadīm ánu pradívo mádhva ā́dhave guhā́ sántam mātáriśvā mathā́yati ||
When from the foundation the great One’s form is brought out, the mastering seers stride by force. And when, following the fore-heaven’s honey for the offering, Mātariśvan churns him out though he is hidden in secrecy.
निः । यत् । ई॒म् । बु॒ध्नात् । म॒हि॒षस्य॑ । वर्प॑सः । ई॒शा॒नासः॑ । शव॑सा । क्रन्त॑ । सू॒रयः॑ । यत् । ई॒म् । अनु॑ । प्र॒ऽदिवः॑ । मध्वः॑ । आ॒ऽध॒वे । गुहा॑ । सन्त॑म् । मा॒त॒रिश्वा॑ । म॒था॒यति॑ ॥निः । यत् । ईम् । बुध्नात् । महिषस्य । वर्पसः । ईशानासः । शवसा । क्रन्त । सूरयः । यत् । ईम् । अनु । प्रदिवः । मध्वः । आधवे । गुहा । सन्तम् । मातरिश्वा । मथायति ॥niḥ | yat | īm | budhnāt | mahiṣasya | varpasaḥ | īśānāsaḥ | śavasā | kranta | sūrayaḥ | yat | īm | anu | pra-divaḥ | madhvaḥ | ādhave | guhā | santam | mātariśvā | mathāyati