Sukta 1.141
पृक्षो वपुः पितुमान्नित्य आ शये द्वितीयमा सप्तशिवासु मातृषु । तृतीयमस्य वृषभस्य दोहसे दशप्रमतिं जनयन्त योषणः ॥
पृ॒क्षो वपु॑: पितु॒मान्नित्य॒ आ श॑ये द्वि॒तीय॒मा स॒प्तशि॑वासु मा॒तृषु॑ । तृ॒तीय॑मस्य वृष॒भस्य॑ दो॒हसे॒ दश॑प्रमतिं जनयन्त॒ योष॑णः ॥
pṛkṣó vápūḥ pitumā́n nítya ā́ śaye dvitī́yam ā́ saptáśivāsu mātṛ́ṣu | tṛtī́yam asya vṛṣabhásya dóhase dáśa-pramatiṃ janayanta yóṣaṇaḥ ||
His form is rich with nourishment, possessed of the father-power; eternal, he lies down. A second time he rests in the seven benign Mothers. A third time, for the milking of this Bull, the fostering energies bring forth the tenfold right discernment.
पृ॒क्षः । वपुः॑ । पि॒तु॒ऽमान् । नित्यः॑ । आ । श॒ये॒ । द्वि॒तीय॑म् । आ । स॒प्तऽशि॑वासु । मा॒तृषु॑ । तृ॒तीय॑म् । अ॒स्य॒ । वृ॒ष॒भस्य॑ । दो॒हसे॑ । दश॑ऽप्रमतिम् । ज॒न॒य॒न्त॒ । योष॑णः ॥पृक्षः । वपुः । पितुमान् । नित्यः । आ । शये । द्वितीयम् । आ । सप्तशिवासु । मातृषु । तृतीयम् । अस्य । वृषभस्य । दोहसे । दशप्रमतिम् । जनयन्त । योषणः ॥pṛkṣaḥ | vapuḥ | pitu-mān | nityaḥ | ā | śaye | dvitīyam | ā | sapta-śivāsu | mātṛṣu | tṛtīyam | asya | vṛṣabhasya | dohase | daśa-pramatim | janayanta | yoṣaṇaḥ