Sukta 1.141
बळित्था तद्वपुषे धायि दर्शतं देवस्य भर्गः सहसो यतो जनि । यदीमुप ह्वरते साधते मतिॠतस्य धेना अनयन्त सस्रुतः ॥
बळि॒त्था तद्वपु॑षे धायि दर्श॒तं दे॒वस्य॒ भर्ग॒: सह॑सो॒ यतो॒ जनि॑ । यदी॒मुप॒ ह्वर॑ते॒ साध॑ते म॒तिॠ॒तस्य॒ धेना॑ अनयन्त स॒स्रुत॑: ॥
baḷitthā́ tád vápūṣe dhāyi darśatáṃ devásya bhárgaḥ sáhaso yáto jáni | yadīm úpa hvárate sā́dhate matí ṛtásya dhénā anayanta sasrútaḥ ||
Indeed, that was set into a visible form—the god’s splendour, born from power. When the thought approaches and turns in aspiration to accomplish, then the streaming cows of ṛta lead it onward.
बट् । इ॒त्था । तत् । वपु॑षे । धा॒यि॒ । द॒र्श॒तम् । दे॒वस्य॑ । भर्गः॑ । सह॑सः । यतः॑ । जनि॑ । यत् । ई॒म् । उप॑ । ह्वर॑ते । साध॑ते । म॒तिः । ऋ॒तस्य॑ । धेनाः॑ । अ॒न॒य॒न्त॒ । स॒ऽस्रुतः॑ ॥बट् । इत्था । तत् । वपुषे । धायि । दर्शतम् । देवस्य । भर्गः । सहसः । यतः । जनि । यत् । ईम् । उप । ह्वरते । साधते । मतिः । ऋतस्य । धेनाः । अनयन्त । सस्रुतः ॥baṭ | itthā | tat | vapuṣe | dhāyi | darśatam | devasya | bhargaḥ | sahasaḥ | yataḥ | jani | yat | īm | upa | hvarate | sādhate | matiḥ | ṛtasya | dhenāḥ | anayanta | sa-srutaḥ