Sukta 1.141
उत नः सुद्योत्मा जीराश्वो होता मन्द्रः शृणवच्चन्द्ररथः । स नो नेषन्नेषतमैरमूरोऽग्निर्वामं सुवितं वस्यो अच्छ ॥
उ॒त न॑: सु॒द्योत्मा॑ जी॒राश्वो॒ होता॑ म॒न्द्रः शृ॑णवच्च॒न्द्रर॑थः । स नो॑ नेष॒न्नेष॑तमै॒रमू॑रो॒ऽग्निर्वा॒मं सु॑वि॒तं वस्यो॒ अच्छ॑ ॥
utá naḥ su-dyótmā jīrā́śvo hótā mandráḥ śṛṇavac candrá-rathaḥ | sá no néṣan néṣa-tamaiḥ amū́ro 'gnír vā́maṃ su-vitáṃ vásyo áccha ||
And may our bright-flaming Hotar, swift-horsed, the glad one with shining chariot, hear us. May Agni, unbewildered, lead us by the best leaders to the dear and happy path, to the more excellent good.
उ॒त । नः॒ । सु॒ऽद्योत्मा॑ । जी॒रअ॑श्वः । होता॑ । म॒न्द्रः । शृ॒ण॒व॒त् । च॒न्द्रऽर॑थः । सः । नः॒ । ने॒ष॒त् । नेष॑ऽतमैः । अमू॑रः । अ॒ग्निः । वा॒मम् । सु॒ऽवि॒तम् । वस्यः॑ । अच्छ॑ ॥उत । नः । सुद्योत्मा । जीरअश्वः । होता । मन्द्रः । शृणवत् । चन्द्ररथः । सः । नः । नेषत् । नेषतमैः । अमूरः । अग्निः । वामम् । सुवितम् । वस्यः । अच्छ ॥uta | naḥ | su-dyotmā | jīraaśvaḥ | hotā | mandraḥ | śṛṇavat | candra-rathaḥ | saḥ | naḥ | neṣat | neṣa-tamaiḥ | amūraḥ | agniḥ | vāmam | su-vitam | vasyaḥ | accha