Sukta 1.14
आकीं सूर्यस्य रोचनाद्विश्वान्देवाँ उषर्बुधः । विप्रो होतेह वक्षति ॥
आकीं॒ सूर्य॑स्य रोच॒नाद्विश्वा॑न्दे॒वाँ उ॑ष॒र्बुध॑: । विप्रो॒ होते॒ह व॑क्षति ॥
ākī́ṃ sū́ryasya rocanā́d víśvān devā́ṃ uṣár-búdhaḥ | vípro hótéhá vakṣati ||
From the luminous realm of the Sun, the Dawn-awakened seer—Hotar—draws here all the gods: he brings the powers of light into this field of the sacrifice (the being).
आकी॑म् । सूर्य॑स्य । रो॒च॒नात् । विश्वा॑न् । दे॒वान् । उ॒षः॒ऽबुधः॑ । विप्रः॑ । होता॑ । इ॒ह । व॒क्ष॒ति॒ ॥आकीम् । सूर्यस्य । रोचनात् । विश्वान् । देवान् । उषःबुधः । विप्रः । होता । इह । वक्षति ॥ākīm | sūryasya | rocanāt | viśvān | devān | uṣaḥ-budhaḥ | vipraḥ | hotā | iha | vakṣati