Sukta 1.14
ईळते त्वामवस्यवः कण्वासो वृक्तबर्हिषः । हविष्मन्तो अरंकृतः ॥
ईळ॑ते॒ त्वाम॑व॒स्यव॒: कण्वा॑सो वृ॒क्तब॑र्हिषः । ह॒विष्म॑न्तो अरं॒कृत॑: ॥
ī́ḷate tvām avasyávaḥ kaṇvā́so vṛ́ktabarhiṣaḥ | havíṣmanto araṃkṛ́taḥ ||
The Kaṇvas, seekers of help, adore you—those who have strewn the sacred seat, bearing the offering and made ready: may our prepared ground and concentrated will allow your divine work to proceed without hindrance.
ईळ॑ते । त्वाम् । अ॒व॒स्यवः॑ । कण्वा॑सः । वृ॒क्तऽब॑र्हिषः । ह॒विष्म॑न्तः । अ॒र॒म्ऽकृतः॑ ॥ईळते । त्वाम् । अवस्यवः । कण्वासः । वृक्तबर्हिषः । हविष्मन्तः । अरम्कृतः ॥īḷate | tvām | avasyavaḥ | kaṇvāsaḥ | vṛkta-barhiṣaḥ | haviṣmantaḥ | aram-kṛtaḥ