Sukta 1.138
यस्य ते पूषन्त्सख्ये विपन्यवः क्रत्वा चित्सन्तोऽवसा बुभुज्रिर इति क्रत्वा बुभुज्रिरे । तामनु त्वा नवीयसीं नियुतं राय ईमहे । अहेळमान उरुशंस सरी भव वाजेवाजे सरी भव ॥
यस्य॑ ते पूषन्त्स॒ख्ये वि॑प॒न्यव॒: क्रत्वा॑ चि॒त्सन्तोऽव॑सा बुभुज्रि॒र इति॒ क्रत्वा॑ बुभुज्रि॒रे । तामनु॑ त्वा॒ नवी॑यसीं नि॒युतं॑ रा॒य ई॑महे । अहे॑ळमान उरुशंस॒ सरी॑ भव॒ वाजे॑वाजे॒ सरी॑ भव ॥
yásya te pūṣan sakhyé vipanyávaḥ krátvā cit sántaḥ ávasā bubhujríre íti krátvā bubhujríre | tām ánu tvā navīyasī́m ni-yútam rāyá īmahe | áheḷamāna uru-śaṃsa sárī bhava vā́je-vāje sárī bhava ||
O Pūṣan, in whose friendship the seekers of inspired speech, even by their will and discernment, have enjoyed the help—thus by the power of will they have enjoyed it—following that newer yoking of the energies, we seek you for the plenitude (rāyas). Unangered, wide in your auspicious proclamation, become our companion; in every gaining of force, become our companion.
यस्य॑ । ते॒ । पू॒ष॒न् । स॒ख्ये । वि॒प॒न्यवः॑ । क्रत्वा॑ । चि॒त् । सन्तः॑ । अव॑सा । बु॒भु॒ज्रि॒रे । इति॑ । क्रत्वा॑ । बु॒भु॒ज्रि॒रे । ताम् । अनु॑ । त्वा॒ । नवी॑यसीम् । नि॒ऽयुत॑म् । रा॒यः । ई॒म॒हे॒ । अहे॑ळमानः । उ॒रु॒ऽशं॒स॒ । सरी॑ । भ॒व॒ । वाजे॑ऽवाजे । सरी॑ । भ॒व॒ ॥यस्य । ते । पूषन् । सख्ये । विपन्यवः । क्रत्वा । चित् । सन्तः । अवसा । बुभुज्रिरे । इति । क्रत्वा । बुभुज्रिरे । ताम् । अनु । त्वा । नवीयसीम् । नियुतम् । रायः । ईमहे । अहेळमानः । उरुशंस । सरी । भव । वाजेवाजे । सरी । भव ॥yasya | te | pūṣan | sakhye | vipanyavaḥ | kratvā | cit | santaḥ | avasā | bubhujr ire | iti | kratvā | bubhujrire | tām | anu | tvā | navīyasīm | ni-yutam | rāyaḥ | īmahe | aheḷamānaḥ | uru-śaṃsa | sarī | bhava | vāje--vāje | sarī | bhava