Sukta 1.138
प्र हि त्वा पूषन्नजिरं न यामनि स्तोमेभिः कृण्व ऋणवो यथा मृध उष्ट्रो न पीपरो मृधः । हुवे यत्त्वा मयोभुवं देवं सख्याय मर्त्यः । अस्माकमाङ्गूषान्द्युम्निनस्कृधि वाजेषु द्युम्निनस्कृधि ॥
प्र हि त्वा॑ पूषन्नजि॒रं न याम॑नि॒ स्तोमे॑भिः कृ॒ण्व ऋ॒णवो॒ यथा॒ मृध॒ उष्ट्रो॒ न पी॑परो॒ मृध॑: । हु॒वे यत्त्वा॑ मयो॒भुवं॑ दे॒वं स॒ख्याय॒ मर्त्य॑: । अ॒स्माक॑माङ्गू॒षान्द्यु॒म्निन॑स्कृधि॒ वाजे॑षु द्यु॒म्निन॑स्कृधि ॥
prá hí tvā pūṣann ajiráṃ ná yā́mani stómebhíḥ kṛṇvé ṛṇávo yáthā mṛ́dha uṣṭró ná pī́paro mṛ́dhaḥ | huvè yát tvā mayó-bhuvaṃ deváṃ sakhyā́ya mártyaḥ | asmā́kam āṅgūṣā́n dyumnínaḥ kṛdhi vā́jeṣu dyumnínaḥ kṛdhi ||
For I fashion you with hymns, O Pūṣan, swift on the path, as one makes ready a debtor against hostility—like a camel that bears the burden against hostility. I call you, the delight-bringing god, for friendship as a mortal. Make our inspired utterances luminous; make them luminous in the plenitudes of force (vāja).
प्र । हि । त्वा॒ । पू॒ष॒न् । अ॒जि॒रम् । न । याम॑नि । स्तोमे॑भिः । कृ॒ण्वे । ऋ॒णवः॑ । यथा॑ । मृधः॑ । उष्ट्रः॑ । न । पी॒प॒रः॒ । मृधः॑ । हु॒वे । यत् । त्वा॒ । म॒यः॒ऽभुव॑म् । दे॒वम् । स॒ख्याय॑ । मर्त्यः॑ । अ॒स्माक॑म् । आ॒ङ्गू॒षाम् । द्यु॒म्निनः॑ । कृ॒धि॒ । वाजे॑षु । द्यु॒म्निनः॑ । कृ॒धि॒ ॥प्र । हि । त्वा । पूषन् । अजिरम् । न । यामनि । स्तोमेभिः । कृण्वे । ऋणवः । यथा । मृधः । उष्ट्रः । न । पीपरः । मृधः । हुवे । यत् । त्वा । मयःभुवम् । देवम् । सख्याय । मर्त्यः । अस्माकम् । आङ्गूषाम् । द्युम्निनः । कृधि । वाजेषु । द्युम्निनः । कृधि ॥pra | hi | tvā | pūṣan | ajiram | na | yāmani | stomebhiḥ | kṛṇve | ṛṇavaḥ | yathā | mṛdhaḥ | uṣṭraḥ | na | pīparaḥ | mṛdhaḥ | huve | yat | tvā | mayaḥ-bhuvam | devam | sakhyāya | martyaḥ | asmākam | āṅgūṣām | dyumninaḥ | kṛdhi | vājeṣu | dyumninaḥ | kṛdhi