Sukta 1.138
अस्या ऊ षु ण उप सातये भुवोऽहेळमानो ररिवाँ अजाश्व श्रवस्यतामजाश्व । ओ षु त्वा ववृतीमहि स्तोमेभिर्दस्म साधुभिः । नहि त्वा पूषन्नतिमन्य आघृणे न ते सख्यमपह्नुवे ॥
अ॒स्या ऊ॒ षु ण॒ उप॑ सा॒तये॑ भु॒वोऽहे॑ळमानो ररि॒वाँ अ॑जाश्व श्रवस्य॒ताम॑जाश्व । ओ षु त्वा॑ ववृतीमहि॒ स्तोमे॑भिर्दस्म सा॒धुभि॑: । न॒हि त्वा॑ पूषन्नति॒मन्य॑ आघृणे॒ न ते॑ स॒ख्यम॑पह्नु॒वे ॥
asyā́ ū ṣú ṇa úpa sātáye bhuvó áheḷamāno rari-vā́n ajāśva śravasyatā́m ajāśva | ó ṣú tvā vavṛtīmahi stómebhir dasma sādhúbhiḥ | náhi tvā pūṣann ati-mánye āghṛṇe ná te sakhyám apahnuve ||
For this (our work), come near to us for the winning; unangered, generous giver, O Ajāśva, for the increase of the inspired hearing. Yes, we would turn you towards us with true and accomplished hymns, O wondrous one. For I do not over-think you, O Pūṣan of blazing light; I do not deny your friendship.
अ॒स्याः । ऊँ॒ इति॑ । सु । नः॒ । उप॑ । सा॒तये॑ । भु॒वः॒ । अहे॑ळमानः । र॒रि॒ऽवान् । अ॒ज॒ऽअ॒श्व॒ । श्र॒व॒स्य॒ताम् । अ॒ज॒ऽअ॒श्व॒ । ओ इति॑ । सु । त्वा॒ । व॒वृ॒ती॒म॒हि॒ । स्तोमे॑ऽभिः । द॒स्म॒ । सा॒धुऽभिः॑ । न॒हि । त्वा॒ । पू॒ष॒न् । अ॒ति॒ऽमन्ये॑ । आ॒घृ॒णे॒ । न । ते॒ । स॒ख्यम् । अ॒प॒ऽह्नु॒वे ॥अस्याः । ऊँ इति । सु । नः । उप । सातये । भुवः । अहेळमानः । ररिवान् । अजअश्व । श्रवस्यताम् । अजअश्व । ओ इति । सु । त्वा । ववृतीमहि । स्तोमेभिः । दस्म । साधुभिः । नहि । त्वा । पूषन् । अतिमन्ये । आघृणे । न । ते । सख्यम् । अपह्नुवे ॥asyāḥ | oṃ iti | su | naḥ | upa | sātaye | bhuvaḥ | aheḷamānaḥ | rari-vān | aja-aśva | śravasyatām | aja-aśva | o iti | su | tvā | vavṛtīmahi | stome--bhiḥ | dasma | sādhu-bhiḥ | nahi | tvā | pūṣan | ati-manye | āghṛṇe | na | te | sakhyam | apa-hnute