Sukta 1.137
इम आ यातमिन्दवः सोमासो दध्याशिरः सुतासो दध्याशिरः । उत वामुषसो बुधि साकं सूर्यस्य रश्मिभिः । सुतो मित्राय वरुणाय पीतये चारुॠताय पीतये ॥
इ॒म आ या॑त॒मिन्द॑व॒: सोमा॑सो॒ दध्या॑शिरः सु॒तासो॒ दध्या॑शिरः । उ॒त वा॑मु॒षसो॑ बु॒धि सा॒कं सूर्य॑स्य र॒श्मिभि॑: । सु॒तो मि॒त्राय॒ वरु॑णाय पी॒तये॒ चारु॑ॠ॒ताय॑ पी॒तये॑ ॥
imá ā́ yātam índavaḥ sómāso dádhyāśiraḥ sutā́so dádhyāśiraḥ | utá vāṃ uṣáso budhí sākáṃ sū́ryasya raśmíbhíḥ | sutó mitrā́ya váruṇāya pītáye cā́ru ṛtā́ya pītáye ||
Come—these drops of Soma, these pressed draughts mixed with curd. And awaken with the Dawns together with the Sun’s rays. This Soma is pressed for Mitra and Varuṇa to drink, a fair delight for ṛta to drink.
इ॒मे । आ । या॒त॒म् । इन्द॑वः । सोमा॑सः । दधि॑ऽआशिरः । सु॒तासः॑ । दधि॑ऽआशिरः । उ॒त । वा॒म् । उ॒षसः॑ । बु॒धि । सा॒कम् । सूर्य॑स्य । र॒श्मिऽभिः॑ । सु॒तः । मि॒त्राय । वरु॑णाय । पी॒तये॑ । चारुः॑ । ऋ॒ताय॑ । पी॒तये॑ ॥इमे । आ । यातम् । इन्दवः । सोमासः । दधिआशिरः । सुतासः । दधिआशिरः । उत । वाम् । उषसः । बुधि । साकम् । सूर्यस्य । रश्मिभिः । सुतः । मित्राय । वरुणाय । पीतये । चारुः । ऋताय । पीतये ॥ime | ā | yātam | indavaḥ | somāsaḥ | dadhi-āśiraḥ | sutāsaḥ | dadhi-āśiraḥ | uta | vām | uṣasaḥ | budhi | sākam | sūryasya | raśmi-bhiḥ | sutaḥ | mitrāya | varuṇāya | pītaye | cāruḥ | ṛtāya | pītaye