Sukta 1.137
सुषुमा यातमद्रिभिर्गोश्रीता मत्सरा इमे सोमासो मत्सरा इमे । आ राजाना दिविस्पृशास्मत्रा गन्तमुप नः । इमे वां मित्रावरुणा गवाशिरः सोमाः शुक्रा गवाशिरः ॥
सु॒षु॒मा या॑त॒मद्रि॑भि॒र्गोश्री॑ता मत्स॒रा इ॒मे सोमा॑सो मत्स॒रा इ॒मे । आ रा॑जाना दिविस्पृशास्म॒त्रा ग॑न्त॒मुप॑ नः । इ॒मे वां॑ मित्रावरुणा॒ गवा॑शिर॒: सोमा॑: शु॒क्रा गवा॑शिरः ॥
suṣumā́ yātam ádribhir gó-śrītā matsarā́ imé sómāso matsarā́ imé | ā́ rājānā divi-spṛśāsmatrā́ gántam úpa naḥ | imé vāṃ mitrāvaruṇā gávāśiraḥ sómāḥ śukrā́ gávāśiraḥ ||
Come in full gladness with the pressing-stones; these Soma-joys are supported by the rays of Light, these Soma-joys. O two kings who touch heaven, come here to us, come near. These for you, O Mitra and Varuṇa, are Soma-draughts mixed with the ‘cow’—with rays of luminous knowledge—bright with that radiance.
सु॒षु॒म । आ । या॒त॒म् । अद्रि॑ऽभिः । गोऽश्री॑ताः । म॒त्स॒राः । इ॒मे । सोमा॑सः । मत्स॒राः । इ॒मे । आ । रा॒जा॒ना॒ । दि॒वि॒ऽस्पृ॒शा॒ । अ॒स्म॒ऽत्रा । ग॒न्त॒म् । उप॑ । नः॒ । इ॒मे । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । गोऽआ॑शिरः । सोमाः॑ । शु॒क्राः । गोऽआ॑शिरः ॥सुषुम । आ । यातम् । अद्रिभिः । गोश्रीताः । मत्सराः । इमे । सोमासः । मत्सराः । इमे । आ । राजाना । दिविस्पृशा । अस्मत्रा । गन्तम् । उप । नः । इमे । वाम् । मित्रावरुणा । गोआशिरः । सोमाः । शुक्राः । गोआशिरः ॥suṣuma | ā | yātam | adri-bhiḥ | go--śrītāḥ | matsarāḥ | ime | somāsaḥ | matsarāḥ | ime | ā | rājānā | divi-spṛśā | asma-trā | gantam | upa | naḥ | ime | vām | mitrāvaruṇā | go--āśiraḥ | somāḥ | śukrāḥ | go--āśiraḥ