Sukta 1.137
तां वां धेनुं न वासरीमंशुं दुहन्त्यद्रिभिः सोमं दुहन्त्यद्रिभिः । अस्मत्रा गन्तमुप नोऽर्वाञ्चा सोमपीतये । अयं वां मित्रावरुणा नृभिः सुतः सोम आ पीतये सुतः ॥
तां वां॑ धे॒नुं न वा॑स॒रीमं॒शुं दु॑ह॒न्त्यद्रि॑भि॒: सोमं॑ दुह॒न्त्यद्रि॑भिः । अ॒स्म॒त्रा ग॑न्त॒मुप॑ नो॒ऽर्वाञ्चा॒ सोम॑पीतये । अ॒यं वां॑ मित्रावरुणा॒ नृभि॑: सु॒तः सोम॒ आ पी॒तये॑ सु॒तः ॥
tā́ṃ vāṃ dhenúṃ ná vāsarīm áṃśuṃ duhanty ádribhiḥ sómaṃ duhanty ádribhiḥ | asmatrā́ gántam úpa no ’rvā́ñcā sómapītaye | ayáṃ vāṃ mitrāvaruṇā nṛ́bhíḥ sutáḥ sóma ā́ pītáye sutáḥ ||
That Soma-stalk, like a milch-cow rich in nourishing flow, they milk out with the pressing-stones; they milk out Soma with the pressing-stones. Come here to us, turning toward us, for the drinking of Soma. This Soma for you, O Mitra and Varuṇa, is pressed by the men, pressed for drinking.
ताम् । वा॒म् । धे॒नुम् । न । वा॒स॒रीम् । अं॒शुम् । दु॒ह॒न्ति॒ । अद्रि॑ऽभिः । सोम॑म् । दु॒ह॒न्ति॒ । अद्रि॑ऽभिः । अ॒स्म॒ऽत्रा । ग॒न्त॒म् । उप॑ । नः॒ । अ॒र्वान्चा॑ । सोम॑ऽपीतये । अ॒यम् । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । नृऽभिः॑ । सु॒तः । सोमः॑ । आ । पी॒तये॑ । सु॒तः ॥ताम् । वाम् । धेनुम् । न । वासरीम् । अंशुम् । दुहन्ति । अद्रिभिः । सोमम् । दुहन्ति । अद्रिभिः । अस्मत्रा । गन्तम् । उप । नः । अर्वान्चा । सोमपीतये । अयम् । वाम् । मित्रावरुणा । नृभिः । सुतः । सोमः । आ । पीतये । सुतः ॥tām | vām | dhenum | na | vāsarīm | aṃśum | duhanti | adri-bhiḥ | somam | duhanti | adr i-bhiḥ | asma-trā | gantam | upa | naḥ | arvāncā | soma-pītaye | ayam | vām | mitrāvaruṇā | nṛ-bhiḥ | sutaḥ | somaḥ | ā | pītaye | sutaḥ