Sukta 1.134
तुभ्यं शुक्रासः शुचयस्तुरण्यवो मदेषूग्रा इषणन्त भुर्वण्यपामिषन्त भुर्वणि । त्वां त्सारी दसमानो भगमीट्टे तक्ववीये । त्वं विश्वस्माद्भुवनात्पासि धर्मणासुर्यात्पासि धर्मणा ॥
तुभ्यं॑ शु॒क्रास॒: शुच॑यस्तुर॒ण्यवो॒ मदे॑षू॒ग्रा इ॑षणन्त भु॒र्वण्य॒पामि॑षन्त भु॒र्वणि॑ । त्वां त्सा॒री दस॑मानो॒ भग॑मीट्टे तक्व॒वीये॑ । त्वं विश्व॑स्मा॒द्भुव॑नात्पासि॒ धर्म॑णासु॒र्या॑त्पासि॒ धर्म॑णा ॥
túbhyaṃ śukrā́saḥ śúcayas turaṇyávo mádeṣūgrā́ iṣaṇanta bhurváṇy apā́m iṣanta bhurváṇi | tvā́ṃ tsārī dásamāno bhágam īṭṭe takva-vī́ye | tváṃ víśvasmād bhúvanāt pāsi dhármaṇā asuryā́t pāsi dhármaṇā ||
For you the bright and pure, swift and vehement in the ecstasy, set their impulsions in the wide movement, and the waters too they impel in that wide movement. The seeker, in the tenth step, adores you for the portion of felicity, O master of swift might. You guard every world by the law of your being; you guard it from the asuric distortion by that law.
तु॒भ्य॑म् । शु॒क्रास॑ । शुच॑यः । तु॒र॒ण्यवः॑ । मदे॑षु । उ॒ग्राः । इ॒ष॒ण॒न्त॒ । भु॒र्वणि॑ । अ॒पाम् । इ॒ष॒न्त॒ । भु॒र्वणि॑ । त्वाम् । त्सा॒री । दस॑मानः । भग॑म् । ई॒ट्टे॒ । त॒क्व॒ऽवीये॑ । त्वम् । विश्व॑स्मात् । भुव॑नात् । पा॒सि॒ । धर्म॑णा । अ॒सु॒र्या॑त् । पा॒सि॒ । धर्म॑णा ॥तुभ्यम् । शुक्रास । शुचयः । तुरण्यवः । मदेषु । उग्राः । इषणन्त । भुर्वणि । अपाम् । इषन्त । भुर्वणि । त्वाम् । त्सारी । दसमानः । भगम् । ईट्टे । तक्ववीये । त्वम् । विश्वस्मात् । भुवनात् । पासि । धर्मणा । असुर्यात् । पासि । धर्मणा ॥tubhyam | śukrāsa | śucayaḥ | turaṇyavaḥ | madeṣu | ugrāḥ | iṣaṇanta | bhurvaṇi | apām | iṣanta | bhurvaṇi | tvām | tsārī | dasamānaḥ | bhagam | īṭe | takva-vīye | tvam | viśvasmāt | bhuvanāt | pāsi | dharmaṇā | asuryāt | pāsi | dharmaṇā