Sukta 1.134
त्वं नो वायवेषामपूर्व्यः सोमानां प्रथमः पीतिमर्हसि सुतानां पीतिमर्हसि । उतो विहुत्मतीनां विशां ववर्जुषीणाम् । विश्वा इत्ते धेनवो दुह्र आशिरं घृतं दुह्रत आशिरम् ॥
त्वं नो॑ वायवेषा॒मपू॑र्व्य॒: सोमा॑नां प्रथ॒मः पी॒तिम॑र्हसि सु॒तानां॑ पी॒तिम॑र्हसि । उ॒तो वि॒हुत्म॑तीनां वि॒शां व॑व॒र्जुषी॑णाम् । विश्वा॒ इत्ते॑ धे॒नवो॑ दुह्र आ॒शिरं॑ घृ॒तं दु॑ह्रत आ॒शिर॑म् ॥
tváṃ no vāyav eṣā́m apū́rvyaḥ sómānāṃ prathamáḥ pītím arhasi sutā́nāṃ pītím arhasi | utó vihútmātīnām víśāṃ vavarjúṣīṇām | víśvā ítté dhénavo duhra āśíraṃ ghṛtáṃ duhrata āśíram ||
You, O Vāyu, are for us the unparalleled one among these: you deserve the first drinking of the Soma, you deserve the drinking of the pressed delight. And also of the well-invoked peoples who are turned in right movement—of them. All your Cows yield the mixture of nourishment; they milk out the clarified richness, they milk the offered essence.
त्वम् । नः॒ । वा॒यो॒ इति॑ । ए॒षा॒म् । अपू॑र्व्यः । सोमा॑नाम् । प्र॒थ॒मः । पी॒तिम् । अ॒र्ह॒सि॒ । सु॒ताना॑म् । पी॒तिम् । अ॒र्ह॒सि॒ । उ॒तो इति॑ । वि॒हुत्म॑तीनाम् । वि॒शाम् । व॒व॒र्जुषी॑णाम् । विश्वाः॑ । इत् । ते॒ । धे॒नवः॑ । दु॒ह्रे॒ । आ॒ऽशिर॑म् । घृ॒तम् । दु॒ह्र॒ते॒ । आ॒ऽशिर॑म् ॥त्वम् । नः । वायो इति । एषाम् । अपूर्व्यः । सोमानाम् । प्रथमः । पीतिम् । अर्हसि । सुतानाम् । पीतिम् । अर्हसि । उतो इति । विहुत्मतीनाम् । विशाम् । ववर्जुषीणाम् । विश्वाः । इत् । ते । धेनवः । दुह्रे । आशिरम् । घृतम् । दुह्रते । आशिरम् ॥tvam | naḥ | vāyo iti | eṣām | apūrvyaḥ | somānām | prathamaḥ | pītim | arhasi | sutānām | pītim | arhasi | uto iti | vihutmatīnām | viśām | vavarjuṣīṇām | viśvāḥ | it | te | dhenavaḥ | duhre | āśiram | ghṛtam | duhrcate | āśiram