Sukta 1.134
वायुर्युङ्क्ते रोहिता वायुररुणा वायू रथे अजिरा धुरि वोळ्हवे वहिष्ठा धुरि वोळ्हवे । प्र बोधया पुरंधिं जार आ ससतीमिव । प्र चक्षय रोदसी वासयोषसः श्रवसे वासयोषसः ॥
वा॒युर्यु॑ङ्क्ते॒ रोहि॑ता वा॒युर॑रु॒णा वा॒यू रथे॑ अजि॒रा धु॒रि वोळ्ह॑वे॒ वहि॑ष्ठा धु॒रि वोळ्ह॑वे । प्र बो॑धया॒ पुरं॑धिं जा॒र आ स॑स॒तीमि॑व । प्र च॑क्षय॒ रोद॑सी वासयो॒षस॒: श्रव॑से वासयो॒षस॑: ॥
vāyúr yuṅkte róhitā vāyúr aruṇā́ vāyū́ ráthe ajirā́ dhurí voḷhávē váhiṣṭhā dhurí voḷhávē | prá bodhayā púraṃdhiṃ jārá ā́ sasatīm iva | prá cakṣaya ródasī vāsayóṣasaḥ śrávase vāsayóṣasaḥ ||
Vāyu yokes the red steeds, Vāyu the tawny ones; on the chariot they are swift, best for bearing on the pole. Awaken the plenitude (puraṃdhi) as a lover rousing the eager beloved; make heaven and earth see wide, and clothe the Dawns for the growth of the soul’s hearing and fame.
वा॒युः । यु॒ङ्क्ते॒ । रोहि॑ता । वा॒युः । अ॒रु॒णा । वा॒युः । रथे॑ । अ॒जि॒रा । धु॒रि । वोळ्ह॑वे । वहि॑ष्ठा । धु॒रि । वोळ्ह॑वे । प्र । बो॒ध॒य॒ । पुर॑म्ऽधिम् । जा॒रः । आ । स॒स॒तीम्ऽइ॑व । प्र । च॒क्ष॒य॒ । रोद॑सी॒ इति॑ । वा॒स॒य॒ । उ॒षसः॒ । श्रव॑से । वा॒स॒य॒ । उ॒षसः॑ ॥वायुः । युङ्क्ते । रोहिता । वायुः । अरुणा । वायुः । रथे । अजिरा । धुरि । वोळ्हवे । वहिष्ठा । धुरि । वोळ्हवे । प्र । बोधय । पुरम्धिम् । जारः । आ । ससतीम्इव । प्र । चक्षय । रोदसी इति । वासय । उषसः । श्रवसे । वासय । उषसः ॥vāyuḥ | yuṅkte | rohitā | vāyuḥ | aruṇā | vāyuḥ | rathe | ajirā | dhuri | voḷhave | vahiṣṭhā | dhuri | voḷhave | pra | bodhaya | puram-dhim | jāraḥ | ā | sasatīm-iva | pra | cakṣaya | rodasī iti | vāsaya | uṣasaḥ | śravase | vāsaya | uṣasaḥ