Sukta 1.134
आ त्वा जुवो रारहाणा अभि प्रयो वायो वहन्त्विह पूर्वपीतये सोमस्य पूर्वपीतये । ऊर्ध्वा ते अनु सूनृता मनस्तिष्ठतु जानती । नियुत्वता रथेना याहि दावने वायो मखस्य दावने ॥
आ त्वा॒ जुवो॑ रारहा॒णा अ॒भि प्रयो॒ वायो॒ वह॑न्त्वि॒ह पू॒र्वपी॑तये॒ सोम॑स्य पू॒र्वपी॑तये । ऊ॒र्ध्वा ते॒ अनु॑ सू॒नृता॒ मन॑स्तिष्ठतु जान॒ती । नि॒युत्व॑ता॒ रथे॒ना या॑हि दा॒वने॒ वायो॑ म॒खस्य॑ दा॒वने॑ ॥
ā́ tvā juvó rarahāṇā́ abhí práyo vāyo váhantv ihá pū́rva-pītaye sómasya pū́rva-pītaye | ū́rdhvā te ánu sūnṛ́tā mánas tiṣṭhatu jānatī́ | niyútvātā ráthenā yāhi dāváne vāyo mákhasya dāváne ||
O Vāyu, the swift impulses, eager and pressing forward, bring you here to the first drinking of Soma, to the first tasting of delight. Let the upward-truth (sūnṛtā) follow you; let the knowing mind stand poised. Come with your yoked team in the chariot for the giving—O Vāyu—for the offering of the sacrifice’s power.
आ । त्वा॒ । जुवः॑ । र॒र॒हा॒णाः । अ॒भि । प्रयः॑ । वायो॒ इति॑ । वह॑न्तु । इ॒ह । पू॒र्वऽपी॑तये । सोम॑स्य । ऊ॒र्ध्वा । ते॒ । अनु॑ । सू॒नृता॑ । मनः॑ । ति॒ष्ठ॒तु॒ । जा॒न॒ती । नि॒युत्व॑ता । रथे॑न । आ । या॒हि॒ । दा॒वने॑ । वायो॑ इति॑ । म॒खस्य॑ । दा॒वने॑ ॥आ । त्वा । जुवः । ररहाणाः । अभि । प्रयः । वायो इति । वहन्तु । इह । पूर्वपीतये । सोमस्य । ऊर्ध्वा । ते । अनु । सूनृता । मनः । तिष्ठतु । जानती । नियुत्वता । रथेन । आ । याहि । दावने । वायो इति । मखस्य । दावने ॥ā | tvā | juvaḥ | rarahāṇāḥ | abhi | prayaḥ | vāyo iti | vahantu | iha | pūrva-pītaye | somasya | ūrdhvā | te | anu | sūnṛtā | manaḥ | tiṣṭhatu | jānatī | niyutvatā | rathena | ā | yāhi | dāvane | vāyoiti | makhasya | dāvane