Sukta 1.130
भिनत्पुरो नवतिमिन्द्र पूरवे दिवोदासाय महि दाशुषे नृतो वज्रेण दाशुषे नृतो । अतिथिग्वाय शम्बरं गिरेरुग्रो अवाभरत् । महो धनानि दयमान ओजसा विश्वा धनान्योजसा ॥
भि॒नत्पुरो॑ नव॒तिमि॑न्द्र पू॒रवे॒ दिवो॑दासाय॒ महि॑ दा॒शुषे॑ नृतो॒ वज्रे॑ण दा॒शुषे॑ नृतो । अ॒ति॒थि॒ग्वाय॒ शम्ब॑रं गि॒रेरु॒ग्रो अवा॑भरत् । म॒हो धना॑नि॒ दय॑मान॒ ओज॑सा॒ विश्वा॒ धना॒न्योज॑सा ॥
bhínat púro navatím indra pūráve divodā́sāya máhi dāśúṣe nṛ́to vájreṇa dāśúṣe nṛ́to | atithi-gvā́ya śámbaraṃ girér ugró ávābharat | mahó dhánāni dáyamāna ójasā víśvā dhánāny ójasā ||
Indra shattered the ninety strongholds for Pūru, for Divodāsa who gives, for the manly worshipper—he broke them with the thunder-force. For Atithigva the fierce one brought down Śambara from the mountain. Bestowing by his strength the great treasures, he gives by his power all treasures of plenitude.
भि॒नत् । पुरः॑ । न॒व॒तिम् । इ॒न्द्र॒ । पू॒रवे॑ । दिवः॑ऽदासाय । महि॑ । दा॒शुषे॑ । नृ॒तो॒ इति॑ । वज्रे॑ण । दा॒शुषे॑ । नृ॒तो॒ इति॑ । अ॒ति॒थि॒ऽग्वाय॑ । शम्ब॑रम् । गि॒रेः । उ॒ग्रः । अव॑ । अ॒भ॒र॒त् । म॒हः । धना॑नि । दय॑मानः । ओज॑सा । विश्वा॑ । धना॒नि । ओज॑सा ॥भिनत् । पुरः । नवतिम् । इन्द्र । पूरवे । दिवःदासाय । महि । दाशुषे । नृतो इति । वज्रेण । दाशुषे । नृतो इति । अतिथिग्वाय । शम्बरम् । गिरेः । उग्रः । अव । अभरत् । महः । धनानि । दयमानः । ओजसा । विश्वा । धनानि । ओजसा ॥bhinat | puraḥ | navatim | indra | pūrave | divaḥ-dāsāya | mahi | dāśuṣe | nṛto | iti | vajreṇa | dāśuṣe | nṛto iti | atithi-gvāya | śambaram | gireḥ | ugraḥ | ava | abharat | mahaḥ | dhanāni | dayamānaḥ | ojasā | viśvā | dhanāni | ojasā