Sukta 1.130
स नो नव्येभिर्वृषकर्मन्नुक्थैः पुरां दर्तः पायुभिः पाहि शग्मैः । दिवोदासेभिरिन्द्र स्तवानो वावृधीथा अहोभिरिव द्यौः ॥
स नो॒ नव्ये॑भिर्वृषकर्मन्नु॒क्थैः पुरां॑ दर्तः पा॒युभि॑: पाहि श॒ग्मैः । दि॒वो॒दा॒सेभि॑रिन्द्र॒ स्तवा॑नो वावृधी॒था अहो॑भिरिव॒ द्यौः ॥
sá no návyebhir vṛṣa-karman nuktháih purā́ṃ dartāḥ pāyúbhiḥ pāhi śágmaiḥ | divodā́sebhiḥ indra stávāno vāvṛdhīthā́ ahóbhir-iva dyáuḥ ||
Do thou, O bull of works, with our newer hymns—O breaker of the strongholds—guard us with thy protecting and puissant safeguards. Praised by the Divodāsas, O Indra, grow ever greater, as heaven widens by its days.
सः । नः॒ । नव्ये॑भिः । वृ॒ष॒ऽक॒र्म॒न् । उ॒क्थैः । पुरा॑म् । द॒र्त॒रिति॑ दर्तः । पा॒युऽभिः॑ । पा॒हि॒ । श॒ग्मैः । दि॒वः॒ऽदा॒सेभिः॑ । इ॒न्द्र॒ । स्तवा॑नः । व॒वृ॒धी॒थाः । अहो॑भिःऽइव । द्यौः ॥सः । नः । नव्येभिः । वृषकर्मन् । उक्थैः । पुराम् । दर्तरिति दर्तः । पायुभिः । पाहि । शग्मैः । दिवःदासेभिः । इन्द्र । स्तवानः । ववृधीथाः । अहोभिःइव । द्यौः ॥saḥ | naḥ | navyebhiḥ | vṛṣa-karman | ukthaiḥ | purām | dartaritidartaḥ | pāyu-bhiḥ | pāhi | śagmaiḥ | divaḥ-dāsebhiḥ | indra | stavānaḥ | vavṛdhīthāḥ | ahobhiḥ-iva | dyauḥ