Sukta 1.128
स मानुषे वृजने शंतमो हितोऽग्निर्यज्ञेषु जेन्यो न विश्पतिः प्रियो यज्ञेषु विश्पतिः । स हव्या मानुषाणामिळा कृतानि पत्यते । स नस्त्रासते वरुणस्य धूर्तेर्महो देवस्य धूर्तेः ॥
स मानु॑षे वृ॒जने॒ शंत॑मो हि॒तो॒३॒॑ऽग्निर्य॒ज्ञेषु॒ जेन्यो॒ न वि॒श्पति॑: प्रि॒यो य॒ज्ञेषु॑ वि॒श्पति॑: । स ह॒व्या मानु॑षाणामि॒ळा कृ॒तानि॑ पत्यते । स न॑स्त्रासते॒ वरु॑णस्य धू॒र्तेर्म॒हो दे॒वस्य॑ धू॒र्तेः ॥
sá mā́nuṣe vṛjáne śáṃtamo hitó’gnír yajñéṣu jényo ná víśpátiḥ priyó yajñéṣu víśpátiḥ | sá havyā́ mā́nuṣāṇām iḷā́ kṛtā́ni patyate | sá nas trāsate váruṇasya dhūrtér mahó devásya dhūrtéḥ ||
He, most peace-giving, is placed in the human community; Agni in the sacrifices is to be won like a beloved lord of the people. He becomes master of the human offerings and of the works well-made and consecrated. He protects us from the guile and constraint of Varuṇa, from the mighty god’s oppressive net.
सः । मानु॑षे । वृ॒जने॑ । शम्ऽत॑मः । हि॒तः । अ॒ग्निः । य॒ज्ञेषु॑ । जेन्यः॑ । न । वि॒श्पतिः॑ । प्रि॒यः । य॒ज्ञेषु॑ । वि॒श्पति॑ह् । सः । ह॒व्या । मानु॑षाणाम् । इ॒ळा । कृ॒तानि॑ । प॒त्य॒ते॒ । सः । नः॒ । त्रा॒स॒ते॒ । वरु॑णस्य । धू॒र्तेः । म॒हः । दे॒वस्य॑ । धू॒र्तेः ॥सः । मानुषे । वृजने । शम्तमः । हितः । अग्निः । यज्ञेषु । जेन्यः । न । विश्पतिः । प्रियः । यज्ञेषु । विश्पतिह् । सः । हव्या । मानुषाणाम् । इळा । कृतानि । पत्यते । सः । नः । त्रासते । वरुणस्य । धूर्तेः । महः । देवस्य । धूर्तेः ॥saḥ | mānuṣe | vṛjane | śam-tamaḥ | hitaḥ | agniḥ | yajñeṣu | jenyaḥ | na | viśpatiḥ | priyaḥ | yajñeṣu | viśpatih | saḥ | havyā | mānuṣāṇām | iḷā | kṛtāni | patyate | saḥ | naḥ | trāsate | varuṇasya | dhūrteḥ | mahaḥ | devasya | dhūrteḥ