Sukta 1.128
विश्वो विहाया अरतिर्वसुर्दधे हस्ते दक्षिणे तरणिर्न शिश्रथच्छ्रवस्यया न शिश्रथत् । विश्वस्मा इदिषुध्यते देवत्रा हव्यमोहिषे । विश्वस्मा इत्सुकृते वारमृण्वत्यग्निर्द्वारा व्यृण्वति ॥
विश्वो॒ विहा॑या अर॒तिर्वसु॑र्दधे॒ हस्ते॒ दक्षि॑णे त॒रणि॒र्न शि॑श्रथच्छ्रव॒स्यया॒ न शि॑श्रथत् । विश्व॑स्मा॒ इदि॑षुध्य॒ते दे॑व॒त्रा ह॒व्यमोहि॑षे । विश्व॑स्मा॒ इत्सु॒कृते॒ वार॑मृण्वत्य॒ग्निर्द्वारा॒ व्यृ॑ण्वति ॥
víśvo víhāyā aratír vásur dadhe háste dákṣiṇe táraṇir ná śiśrathac chravasyáyā ná śiśrathat | víśvasmā íd iṣudhyate deva-trā́ havyám ā́ ūhiṣe | víśvasmā ít su-kṛté vā́ram ṛṇvaty agnír dvā́rā ví ṛṇvati ||
Universal in his wide-moving reach, the envoy of right action sets the treasure in the right hand; he does not slacken, like a swift runner, he does not slacken for the sake of glory. For all indeed he arms his impulse, to carry the offering to the gods. For all who do well, Agni opens the enclosure; he opens wide the doors.
विश्वः॑ । विऽहा॑याः । अ॒र॒तिः । वसुः॑ । द॒धे॒ । हस्ते॑ । दक्षि॑णे । त॒रणिः॑ । न । शि॒श्र॒थ॒त् । श्र॒व॒स्यया॑ । न । शि॒श्र॒थ॒त् । विश्व॑स्मै॒ । इत् । इ॒षु॒ध्य॒ते । दे॒व॒ऽत्रा । ह॒व्यम् । आ । ऊ॒हि॒षे॒ । विश्व॑स्मै । इत् । सु॒ऽकृते॑ । वार॑म् । ऋ॒ण्व॒ति॒ । अ॒ग्निः । द्वारा॑ । वि । ऋ॒ण्व॒ति॒ ॥विश्वः । विहायाः । अरतिः । वसुः । दधे । हस्ते । दक्षिणे । तरणिः । न । शिश्रथत् । श्रवस्यया । न । शिश्रथत् । विश्वस्मै । इत् । इषुध्यते । देवत्रा । हव्यम् । आ । ऊहिषे । विश्वस्मै । इत् । सुकृते । वारम् । ऋण्वति । अग्निः । द्वारा । वि । ऋण्वति ॥viśvaḥ | vi-hāyāḥ | aratiḥ | vasuḥ | dadhe | haste | dakṣiṇe | taraṇiḥ | na | śiśrathat | śravasyayā | na | śiśrathat | viśvasmai | it | iṣudhyate | deva-trā | havyam | ā | ūhiṣe | viśvasmai | it | su-kṛte | vāram | ṛṇvati | agniḥ | dvārā | vi | ṛṇvati