Sukta 1.128
क्रत्वा यदस्य तविषीषु पृञ्चतेऽग्नेरवेण मरुतां न भोज्येषिराय न भोज्या । स हि ष्मा दानमिन्वति वसूनां च मज्मना । स नस्त्रासते दुरितादभिह्रुतः शंसादघादभिह्रुतः ॥
क्रत्वा॒ यद॑स्य॒ तवि॑षीषु पृ॒ञ्चते॒ऽग्नेरवे॑ण म॒रुतां॒ न भो॒ज्ये॑षि॒राय॒ न भो॒ज्या॑ । स हि ष्मा॒ दान॒मिन्व॑ति॒ वसू॑नां च म॒ज्मना॑ । स न॑स्त्रासते दुरि॒ताद॑भि॒ह्रुत॒: शंसा॑द॒घाद॑भि॒ह्रुत॑: ॥
krátvā yád asya táviṣīṣu pṛñcáte’gnér avéna marútāṃ ná bhojyé iṣiráya ná bhojyā́ | sá hí ṣmā dā́nam ínvati vásūnāṃ ca májmanā | sá nas trāsate duritā́d abhí-hrutaḥ śaṃsā́d aghā́d abhí-hrutaḥ ||
When by his will his mights are yoked and filled—by Agni’s protection—like the Maruts for the enjoyer, like powers for the impeller, not for a lesser use. For he indeed drives forward the giving of riches and, by his greatness, their increase. He protects us from the crookedness that strikes from without, from hostile speech, from sin that strikes from without.
क्रत्वा॑ । यत् । अ॒स्य॒ । तवि॑षीषु । पृ॒ञ्चते॑ । अ॒ग्नेः । अवे॑न । म॒रुता॒म् । न । भो॒ज्या॑ । इ॒षि॒राय । न । भो॒ज्या॑ । सः । हि । स्म॒ । दान॑म् । इन्व॑ति । वसू॑नाम् । च॒ । म॒ज्मना॑ । सः । नः॒ । त्रा॒स॒ते॒ । दुः॒ऽइ॒तात् । अ॒भि॒ऽह्रुतः॑ । शंसा॑त् । अ॒घात् । अ॒भि॒ऽह्रुतः॑ ॥क्रत्वा । यत् । अस्य । तविषीषु । पृञ्चते । अग्नेः । अवेन । मरुताम् । न । भोज्या । इषिराय । न । भोज्या । सः । हि । स्म । दानम् । इन्वति । वसूनाम् । च । मज्मना । सः । नः । त्रासते । दुःइतात् । अभिह्रुतः । शंसात् । अघात् । अभिह्रुतः ॥kratvā | yat | asya | taviṣīṣu | pṛñcate | agneḥ | avena | marutām | na | bhojyā | iṣirāya | na | bhojyā | saḥ | hi | sma | dānam | invati | vasūnām | ca | majmanā | saḥ | naḥ | trāsate | duḥ-itāt | abhi-hnutaḥ | śaṃsāt | aghāt | abhi-hnutaḥ