Sukta 1.128
स सुक्रतुः पुरोहितो दमेदमेऽग्निर्यज्ञस्याध्वरस्य चेतति क्रत्वा यज्ञस्य चेतति । क्रत्वा वेधा इषूयते विश्वा जातानि पस्पशे । यतो घृतश्रीरतिथिरजायत वह्निर्वेधा अजायत ॥
स सु॒क्रतु॑: पु॒रोहि॑तो॒ दमे॑दमे॒ऽग्निर्य॒ज्ञस्या॑ध्व॒रस्य॑ चेतति॒ क्रत्वा॑ य॒ज्ञस्य॑ चेतति । क्रत्वा॑ वे॒धा इ॑षूय॒ते विश्वा॑ जा॒तानि॑ पस्पशे । यतो॑ घृत॒श्रीरति॑थि॒रजा॑यत॒ वह्नि॑र्वे॒धा अजा॑यत ॥
sá sukrátuḥ puróhito dámē-damē’gnír yajñásyādhvarásya cetati krátvā yajñásya cetati | krátvā vedhā́ iṣūyáte víśvā jātā́ni paspaśe | yató ghṛtaśrī́r átithir ájāyata váhnir vedhā́ ájāyata ||
He of bright will, set in front in every dwelling, Agni becomes conscious of the sacrifice and the straight offering by his power of intention; by that power he becomes conscious of the sacrifice. By the same mastery the Knower shoots forth his impulse and beholds all beings that are born. From him is born the guest radiant with ghee—born the carrier-flame, the wise disposer.
सः । सु॒ऽक्रतुः॑ । पु॒रःऽहि॑तः॑ । दमे॑ऽदमे । अ॒ग्निः । य॒ज्ञस्य । अ॒ध्व॒रस्य॑ । चे॒त॒ति॒ । क्रत्वा॑ । य॒ज्ञस्य॑ । चे॒त॒ति॒ । क्रत्वा॑ । वे॒धाः । इ॒षु॒ऽय॒ते । विश्वा॑ । जा॒तानि॑ । प॒स्प॒शे॒ । यतः॑ । घृ॒त॒ऽश्रीः । अति॑थिः । अजा॑यत । वह्निः॑ । वे॒धाः । अजा॑यत ॥सः । सुक्रतुः । पुरःहितः । दमेदमे । अग्निः । यज्ञस्य । अध्वरस्य । चेतति । क्रत्वा । यज्ञस्य । चेतति । क्रत्वा । वेधाः । इषुयते । विश्वा । जातानि । पस्पशे । यतः । घृतश्रीः । अतिथिः । अजायत । वह्निः । वेधाः । अजायत ॥saḥ | su-kratuḥ | puraḥ-hitaḥ | dame--dame | agniḥ | yajñasya | adhvarasya | cetati | kratvā | yajñasya | cetati | kratvā | vedhāḥ | iṣu-yate | viśvā | jātāni | paspaśe | yataḥ | ghṛta-śrīḥ | atithiḥ | ajāyata | vahniḥ | vedhāḥ | ajāyata