Sukta 1.128
एवेन सद्यः पर्येति पार्थिवं मुहुर्गी रेतो वृषभः कनिक्रदद्दधद्रेतः कनिक्रदत् । शतं चक्षाणो अक्षभिर्देवो वनेषु तुर्वणिः । सदो दधान उपरेषु सानुष्वग्निः परेषु सानुषु ॥
एवे॑न स॒द्यः पर्ये॑ति॒ पार्थि॑वं मुहु॒र्गी रेतो॑ वृष॒भः कनि॑क्रद॒द्दध॒द्रेत॒: कनि॑क्रदत् । श॒तं चक्षा॑णो अ॒क्षभि॑र्दे॒वो वने॑षु तु॒र्वणि॑: । सदो॒ दधा॑न॒ उप॑रेषु॒ सानु॑ष्व॒ग्निः परे॑षु॒ सानु॑षु ॥
évena sadyáḥ páryeti pārthiváṃ muhúr-gī́ rétaḥ vṛṣabháḥ kaníkradad dádhad rétaḥ kaníkradat | śatáṃ cákṣāṇo ákṣabhir devó váneṣu turváṇiḥ | sadó dádhāna úpareṣu sā́nuṣv agníḥ paréṣu sā́nuṣu ||
By this impulsion he swiftly moves all around the earthly field; again and again the Bull of power cries out, bearing the seed of luminous force. The god, seeing with a hundred eyes, the victorious one, works in the forest-depths. Ever establishing his seat on the higher ridges and on the farther summits, Agni takes his station in the ascending levels of our being.
एवे॑न । स॒द्यः । परि॑ । ए॒ति॒ । पार्थि॑वम् । मु॒हुः॒ऽगीः । रेतः॑ । वृ॒ष॒भः । कनि॑क्रदत् । दधत् । रेतः॑ । कनि॑क्रदत् । श॒तम् । चक्षा॑णः । अ॒क्षऽभिः॑ । दे॒वः । वने॑षु । तु॒र्वणिः॑ । सदः॑ । दधा॑नः । उप॑रेषु । सानु॑षु । अ॒ग्निः । परे॑षु । सानु॑षु ॥एवेन । सद्यः । परि । एति । पार्थिवम् । मुहुःगीः । रेतः । वृषभः । कनिक्रदत् । दधत् । रेतः । कनिक्रदत् । शतम् । चक्षाणः । अक्षभिः । देवः । वनेषु । तुर्वणिः । सदः । दधानः । उपरेषु । सानुषु । अग्निः । परेषु । सानुषु ॥evena | sadyaḥ | pari | eti | pārthivam | muhuḥ-gīḥ | retaḥ | vṛṣabhaḥ | kanikradat | dadhat | retaḥ | kanikradat | śatam | cakṣāṇaḥ | akṣa-bhiḥ | devaḥ | vaneṣu | turvaṇiḥ | sadaḥ | dadhānaḥ | upareṣu | sānuṣu | agniḥ | pareṣu | sānuṣu