Sukta 1.128
तं यज्ञसाधमपि वातयामस्यृतस्य पथा नमसा हविष्मता देवताता हविष्मता । स न ऊर्जामुपाभृत्यया कृपा न जूर्यति । यं मातरिश्वा मनवे परावतो देवं भाः परावतः ॥
तं य॑ज्ञ॒साध॒मपि॑ वातयामस्यृ॒तस्य॑ प॒था नम॑सा ह॒विष्म॑ता दे॒वता॑ता ह॒विष्म॑ता । स न॑ ऊ॒र्जामु॒पाभृ॑त्य॒या कृ॒पा न जू॑र्यति । यं मा॑त॒रिश्वा॒ मन॑वे परा॒वतो॑ दे॒वं भाः प॑रा॒वत॑: ॥
táṃ yajñá-sādham ápi vātayāmasy ṛtásya pathā́ námasā havíṣmatā devá-tātā havíṣmatā | sá na ūrjā́m upā́bhṛty ayā́ kṛpā́ ná jū́ryati | yáṃ mātáriśvā mánave parā́vato deváṃ bhā́ḥ parā́vataḥ ||
Him, the accomplisher of the sacrifice, we fan into flame along the path of Ṛta, with adoration and with the offering, for the becoming of the gods—with the offering. He brings to us the nourishing force and sets it near; by this protective care he does not decay. He whom Mātariśvan brought to Manu from the far distance, the god, the shining one from the far distance.
तम् । य॒ज्ञ॒ऽसाध॑म् । अपि॑ । वा॒त॒या॒म॒सि॒ । ऋ॒तस्य॑ । प॒था । नम॑सा । ह॒विष्म॑ता । दे॒वऽता॑ता । ह॒विष्म॑ता । सः । नः॒ । ऊ॒र्जाम् । उ॒प॒ऽआभृ॑ति । अ॒या । कृ॒पा । न । जू॒र्य॒ति॒ । यम् । मा॒त॒रिश्वा॑ । मन॑वे । प॒रा॒ऽवतः॑ । दे॒वम् । भारिति॒ भाः । प॒रा॒ऽवतः॑ ॥तम् । यज्ञसाधम् । अपि । वातयामसि । ऋतस्य । पथा । नमसा । हविष्मता । देवताता । हविष्मता । सः । नः । ऊर्जाम् । उपआभृति । अया । कृपा । न । जूर्यति । यम् । मातरिश्वा । मनवे । परावतः । देवम् । भारिति भाः । परावतः ॥tam | yajña-sādham | api | vātayāmasi | ṛtasya | pathā | namasā | haviṣmatā | deva-tātā | haviṣmatā | saḥ | naḥ | ūrjām | upa-ābhṛti | ayā | kṛpā | na | jūryati | yam | mātariśvā | manave | parāvataḥ | devam | bhāritibhāḥ | parāvataḥ