Sukta 1.127
स हि शर्धो न मारुतं तुविष्वणिरप्नस्वतीषूर्वरास्विष्टनिरार्तनास्विष्टनिः । आदद्धव्यान्याददिर्यज्ञस्य केतुरर्हणा । अध स्मास्य हर्षतो हृषीवतो विश्वे जुषन्त पन्थां नरः शुभे न पन्थाम् ॥
स हि शर्धो॒ न मारु॑तं तुवि॒ष्वणि॒रप्न॑स्वतीषू॒र्वरा॑स्वि॒ष्टनि॒रार्त॑नास्वि॒ष्टनि॑: । आद॑द्ध॒व्यान्या॑द॒दिर्य॒ज्ञस्य॑ के॒तुर॒र्हणा॑ । अध॑ स्मास्य॒ हर्ष॑तो॒ हृषी॑वतो॒ विश्वे॑ जुषन्त॒ पन्थां॒ नर॑: शु॒भे न पन्था॑म् ॥
sá hí śárdho ná mārútam tuví-svaṇír ápnāsvatīṣv urvárāsv iṣṭanír ā́rtanāsv iṣṭaníḥ | ā́dad dhavyā́ny ā́dadír yajñásya ketúr arhā́ṇā | ádha smā́sya hárṣato hṛ́ṣīvato víśve juṣanta pánthāṃ nárāḥ śubhé ná pánthām ||
He indeed is like a Marut-host, loudly resounding; in the fruitful fields of works he is the desired leader, in the straits he is the desired leader. He takes up the offerings; he is the taker, the banner-sign of the sacrifice, worthy of homage. Then, when he exults and is full of glad force, all the human powers consent to his path, as to a path of the Good.
सः । हि । शर्धः॑ । न । मारु॑तम् । तु॒वि॒ऽस्वणिः॑ । अप्न॑स्वतीषु । उ॒र्वरा॑सु इ॒ष्टनिः॑ । आर्त॑नासु । इ॒ष्टनिः॑ । आद॑त् । ह॒व्यानि॑ । आ॒ऽद॒दिः । य॒ज्ञस्य॑ । के॒तुः । अ॒र्हणा॑ । अध॑ । स्म॒ । अ॒स्य॒ । हर्ष॑तः । हृषी॑वतः । विश्वे॑ । जु॒ष॒न्त॒ । पन्था॑म् । नरः॑ । शु॒भे । न । पन्था॑म् ॥सः । हि । शर्धः । न । मारुतम् । तुविस्वणिः । अप्नस्वतीषु । उर्वरासु इष्टनिः । आर्तनासु । इष्टनिः । आदत् । हव्यानि । आददिः । यज्ञस्य । केतुः । अर्हणा । अध । स्म । अस्य । हर्षतः । हृषीवतः । विश्वे । जुषन्त । पन्थाम् । नरः । शुभे । न । पन्थाम् ॥saḥ | hi | śardhaḥ | na | mārutam | tuvi-svaṇiḥ | apnasvatīṣu | urvarāsu iṣṭaniḥ | ārtanāsu | iṣṭaniḥ | ādat | havyāni | ādadiḥ | yajñasya | ketuḥ | aharṇā | adha | sma | asya | harṣataḥ | hṛṣīvataḥ | viśve | juṣanta | panthām | naraḥ | śubhe | na | panthām