HomeRig VedaMandala 1Sukta 127Mantra 5
Previous Mantra
Next Mantra

Mantra 5

Sukta 1.127

Rishi: Kutsa Āṅgirasa (traditional)
Devata: Agni (also ‘Agni-s’ as multiple flames)
Chandas: Triṣṭubh (likely; verse shows triṣṭubh cadence with extended syntactic periods)

तमस्य पृक्षमुपरासु धीमहि नक्तं यः सुदर्शतरो दिवातरादप्रायुषे दिवातरात् । आदस्यायुर्ग्रभणवद्वीळु शर्म न सूनवे । भक्तमभक्तमवो व्यन्तो अजरा अग्नयो व्यन्तो अजराः ॥

तम॑स्य पृ॒क्षमुप॑रासु धीमहि॒ नक्तं॒ यः सु॒दर्श॑तरो॒ दिवा॑तरा॒दप्रा॑युषे॒ दिवा॑तरात् । आद॒स्यायु॒र्ग्रभ॑णवद्वी॒ळु शर्म॒ न सू॒नवे॑ । भ॒क्तमभ॑क्त॒मवो॒ व्यन्तो॑ अ॒जरा॑ अ॒ग्नयो॒ व्यन्तो॑ अ॒जरा॑: ॥

tám asya pṛkṣám úparāsu dhīmahi náktaṃ yáḥ sudárśa-taro divā́tarād áprāyuṣe divā́tarāt | ā́d asyā́yur grábhaṇavad vīḷú śárma ná sūnáve | bhaktám ábhaktam ávo vyánto ajárā agnáyo vyánto ajárāḥ ||

We meditate on his strengthening nourishment in the upper realms: he who by night is more beautiful to see than by day, more a giver of light to the unripe life than the day itself. He seizes and holds our life like a firm grasp, a wide shelter as for a son. He distributes help to what is apportioned and what is unapportioned; the unaging fires spread forth their protection.

तम् । अ॒स्य॒ । पृ॒क्षम् । उप॑रासु । धी॒म॒हि॒ । नक्त॑म् । यः । सु॒दर्श॑ऽतरः । दिवा॑ऽतरात् । अप्र॑ऽआयुषे । दिवा॑तरात् । आत् । अ॒स्य॒ । आयुः॑ । ग्रभ॑णऽवत् । वी॒ळु॒ । शर्म॑ । न । सू॒नवे॑ । भ॒क्तम् । अभ॑क्तम् । अवः॑ । व्यन्तः॑ । अ॒जराः॑ । अ॒ग्नयः॑ । व्यन्तः॑ । अ॒जराः॑ ॥तम् । अस्य । पृक्षम् । उपरासु । धीमहि । नक्तम् । यः । सुदर्शतरः । दिवातरात् । अप्रआयुषे । दिवातरात् । आत् । अस्य । आयुः । ग्रभणवत् । वीळु । शर्म । न । सूनवे । भक्तम् । अभक्तम् । अवः । व्यन्तः । अजराः । अग्नयः । व्यन्तः । अजराः ॥tam | asya | pṛkṣam | uparāsu | dhīmahi | naktam | yaḥ | sudarśa-taraḥ | divātarāt | apra-āyuṣe | divātarāt | āt | asya | āyuḥ | grabhaṇa-vat | vīḷu | śarma | na | sūnave | bhaktam | abhaktam | avaḥ | vyantaḥ | ajarāḥ | agnayaḥ | vyantaḥ | ajarāḥ