Sukta 1.127
यजिष्ठं त्वा यजमाना हुवेम ज्येष्ठमङ्गिरसां विप्र मन्मभिर्विप्रेभिः शुक्र मन्मभिः । परिज्मानमिव द्यां होतारं चर्षणीनाम् । शोचिष्केशं वृषणं यमिमा विशः प्रावन्तु जूतये विशः ॥
यजि॑ष्ठं त्वा॒ यज॑माना हुवेम॒ ज्येष्ठ॒मङ्गि॑रसां विप्र॒ मन्म॑भि॒र्विप्रे॑भिः शुक्र॒ मन्म॑भिः । परि॑ज्मानमिव॒ द्यां होता॑रं चर्षणी॒नाम् । शो॒चिष्के॑शं॒ वृष॑णं॒ यमि॒मा विश॒: प्राव॑न्तु जू॒तये॒ विश॑: ॥
yajíṣṭhaṃ tvā yájamānā huvema jyéṣṭham áṅgirasāṃ vipra mánmabhir víprebhiḥ śukrá mánmabhiḥ | paríjmānam iva dyā́ṃ hótāraṃ carṣaṇīnā́m | śóciṣkeśaṃ vṛ́ṣaṇaṃ yám imā́ víśaḥ prá avantu jūtáye víśaḥ ||
You most fit for sacrifice, we who offer call you—eldest of the Angirases, O seer—by inspired thoughts, by bright inspired thoughts. Like one who ranges the sky in circles, you are the invoking priest of the peoples; flame-haired, a strong bull-power: may these communities foster him forward for swift victory in the work.
यजि॑ष्ठम् । त्वा॒ । यज॑मानाः । हु॒वे॒म॒ । ज्येष्ठ॑म् । अङ्गि॑रसाम् । वि॒प्र॒ । मन्म॑ऽभिः । विप्रे॑भिः । शु॒क्र॒ । मन्म॑ऽभिः । परि॑ज्मानम्ऽइव । द्याम् । होता॑रम् । च॒र्ष॒णी॒नाम् । शो॒चिःऽके॑शम् । वृष॑णम् । यम् । इ॒माः । विशः॑ । प्र । अ॒व॒न्तु॒ । जू॒तये॑ । विशः॑ ॥यजिष्ठम् । त्वा । यजमानाः । हुवेम । ज्येष्ठम् । अङ्गिरसाम् । विप्र । मन्मभिः । विप्रेभिः । शुक्र । मन्मभिः । परिज्मानम्इव । द्याम् । होतारम् । चर्षणीनाम् । शोचिःकेशम् । वृषणम् । यम् । इमाः । विशः । प्र । अवन्तु । जूतये । विशः ॥yajiṣṭham | tvā | yajamānāḥ | huvema | jyeṣṭham | aṅgirasām | vipra | manma-bhiḥ | viprebhiḥ | śukra | manma-bhiḥ | parijmānam-iva | dyām | hotāram | carṣaṇīnām | śociḥ-keśam | vṛṣaṇam | yam | imāḥ | viśaḥ | pra | avantu | jūtaye | viśaḥ