Sukta 1.127
प्र वो महे सहसा सहस्वत उषर्बुधे पशुषे नाग्नये स्तोमो बभूत्वग्नये । प्रति यदीं हविष्मान्विश्वासु क्षासु जोगुवे । अग्रे रेभो न जरत ऋषूणां जूर्णिर्होत ऋषूणाम् ॥
प्र वो॑ म॒हे सह॑सा॒ सह॑स्वत उष॒र्बुधे॑ पशु॒षे नाग्नये॒ स्तोमो॑ बभूत्व॒ग्नये॑ । प्रति॒ यदीं॑ ह॒विष्मा॒न्विश्वा॑सु॒ क्षासु॒ जोगु॑वे । अग्रे॑ रे॒भो न ज॑रत ऋषू॒णां जूर्णि॒र्होत॑ ऋषू॒णाम् ॥
prá vo mahé sáhasā sáhasvata uṣár-budhe paśu-sé nā́gnaye stómo babhūtv agnáye | práti yád īṃ havíṣmān víśvāsú kṣā́su jógūve | ágre rébho ná járata ṛṣūṇā́ṃ jūrṇír hótā ṛṣūṇā́m ||
Forth for you, for the great one mighty by might, for the dawn-awakener, for the giver of increase, let the hymn become— for Agni. When the offerer calls to him in all the worlds, he answers. In front, like a singer, he does not grow old: the swift-moving Hotar of the seers, the swift-moving Hotar of the seers.
प्र । वः॒ । म॒हे । सह॑सा । सह॑स्वते । उ॒षः॒ऽबुधे॑ । प॒शु॒ऽसे । न । अ॒ग्नये॑ । स्तोमः॑ । ब॒भू॒तु॒ । अ॒ग्नये॑ । प्रति॑ । यत् । ई॒म् । ह॒विष्मान् । विश्वा॑सु । क्षासु॑ । जोगु॑वे । अग्रे॑ । रे॒भः । न । ज॒र॒ते॒ । ऋ॒षू॒णाम् । जूर्णिः॑ । होता॑ । ऋ॒षू॒णाम् ॥प्र । वः । महे । सहसा । सहस्वते । उषःबुधे । पशुसे । न । अग्नये । स्तोमः । बभूतु । अग्नये । प्रति । यत् । ईम् । हविष्मान् । विश्वासु । क्षासु । जोगुवे । अग्रे । रेभः । न । जरते । ऋषूणाम् । जूर्णिः । होता । ऋषूणाम् ॥pra | vaḥ | mahe | sahasā | sahasvate | uṣaḥ-budhe | paśu-se | na | agnaye | stomaḥ | babhūtu | agnaye | prati | yat | īm | haviṣmān | viśvāsu | kṣāsu | joguve | agre | rebhaḥ | na | jarate | ṛṣūṇām | jūrṇiḥ | hotā | ṛṣūṇām