Sukta 1.125
मा पृणन्तो दुरितमेन आरन्मा जारिषुः सूरयः सुव्रतासः । अन्यस्तेषां परिधिरस्तु कश्चिदपृणन्तमभि सं यन्तु शोकाः ॥
मा पृ॒णन्तो॒ दुरि॑त॒मेन॒ आर॒न्मा जा॑रिषुः सू॒रय॑: सुव्र॒तास॑: । अ॒न्यस्तेषां॑ परि॒धिर॑स्तु॒ कश्चि॒दपृ॑णन्तम॒भि सं य॑न्तु॒ शोका॑: ॥
mā́ pṛṇánto dúritam éna ā́ran mā́ jāriṣuḥ sū́rayaḥ su-vratā́saḥ | anyás teṣāṃ pari-dhír astu káś cid ápṛṇantam abhí sáṃ yantu śókāḥ ||
Let not those who fulfil be reached by harm or sin; let not the luminous ones of right law decay. Let some other boundary enclose them; but upon the non-giver, upon the one who does not fulfil, let griefs gather and close in.
मा । पृ॒ण॒न्तः॒ । दुःऽइ॑तम् । एनः॑ । आ । अ॒र॒न् । मा । जा॒रि॒षुः॒ । सू॒रयः॑ । सु॒ऽव्र॒तासः॑ । अ॒न्यः । तेषा॑म् । प॒रि॒ऽधिः । अ॒स्तु॒ । कः । चि॒त् । अपृ॑णन्तम् । अ॒भि । सम् । य॒न्तु॒ । शोकाः॑ ॥मा । पृणन्तः । दुःइतम् । एनः । आ । अरन् । मा । जारिषुः । सूरयः । सुव्रतासः । अन्यः । तेषाम् । परिधिः । अस्तु । कः । चित् । अपृणन्तम् । अभि । सम् । यन्तु । शोकाः ॥mā | pṛṇantaḥ | duḥ-itam | enaḥ | ā | aran | mā | jāriṣuḥ | sūrayaḥ | su-vratāsaḥ | anyaḥ | teṣām | pari-dhiḥ | astu | kaḥ | cit | apṛṇantam | abhi | sam | yantu | śokāḥ