Sukta 1.125
दक्षिणावतामिदिमानि चित्रा दक्षिणावतां दिवि सूर्यासः । दक्षिणावन्तो अमृतं भजन्ते दक्षिणावन्तः प्र तिरन्त आयुः ॥
दक्षि॑णावता॒मिदि॒मानि॑ चि॒त्रा दक्षि॑णावतां दि॒वि सूर्या॑सः । दक्षि॑णावन्तो अ॒मृतं॑ भजन्ते॒ दक्षि॑णावन्त॒: प्र ति॑रन्त॒ आयु॑: ॥
dakṣiṇā́vatām íd imā́ni citrā́ dakṣiṇā́vatāṃ diví sū́ryāsaḥ | dakṣiṇā́vanto amṛ́taṃ bhajante dakṣiṇā́vantaḥ prá tirante ā́yuḥ ||
For those who carry Dakṣiṇā these wonders are; for those who carry Dakṣiṇā the suns stand in heaven. The possessors of right-giving partake of immortality; the possessors of right-giving carry their life forward beyond limits.
दक्षि॑णाऽवताम् । इत् । इ॒मानि॑ । चि॒त्रा । दक्षि॑णाऽवताम् । दि॒वि । सूर्या॑सः । दक्षि॑णाऽवन्तः । अ॒मृत॑म् । भ॒ज॒न्ते॒ । दक्षि॑णाऽवन्तः । प्र । ति॒र॒न्ते॒ । आयुः॑ ॥दक्षिणावताम् । इत् । इमानि । चित्रा । दक्षिणावताम् । दिवि । सूर्यासः । दक्षिणावन्तः । अमृतम् । भजन्ते । दक्षिणावन्तः । प्र । तिरन्ते । आयुः ॥dakṣiṇāvatām | it | imāni | citrā | dakṣiṇāvatām | divi | sūryāsaḥ | dakṣiṇāvantaḥ | amṛtam | bhajante | dakṣiṇāvantaḥ | pra | tirante | āyuḥ