Sukta 1.123
जानत्यह्नः प्रथमस्य नाम शुक्रा कृष्णादजनिष्ट श्वितीची । ऋतस्य योषा न मिनाति धामाहरहर्निष्कृतमाचरन्ती ॥
जा॒न॒त्यह्न॑: प्रथ॒मस्य॒ नाम॑ शु॒क्रा कृ॒ष्णाद॑जनिष्ट श्विती॒ची । ऋ॒तस्य॒ योषा॒ न मि॑नाति॒ धामाह॑रहर्निष्कृ॒तमा॒चर॑न्ती ॥
jā́natī áhnaḥ prathamásya nā́ma śukrā́ kṛṣṇā́d ajaniṣṭa śvitī́cī | ṛtásya yóṣā ná mināti dhā́mā́har-ahar niṣkṛtám ā́carantī ||
Knowing the first name of the Day, the bright one is born out of the black and becomes white-shining. The maiden of Ṛta does not diminish her domain; day after day she moves according to the ordained release—faithfully repeating the act of emergence into truth.
जा॒न॒ती । अह्नः॑ । प्र॒थ॒मस्य॑ । नाम॑ । शु॒क्रा । कृ॒ष्णात् । अ॒ज॒नि॒ष्ट॒ । श्वि॒ती॒ची । ऋ॒तस्य॑ । योषा॑ । न । मि॒ना॒ति॒ । धाम॑ । अहः॑ऽअहः । निः॒ऽकृ॒तम् । आ॒ऽचर॑न्ती ॥जानती । अह्नः । प्रथमस्य । नाम । शुक्रा । कृष्णात् । अजनिष्ट । श्वितीची । ऋतस्य । योषा । न । मिनाति । धाम । अहःअहः । निःकृतम् । आचरन्ती ॥jānatī | ahnaḥ | prathamasya | nāma | śukrā | kṛṣṇāt | ajaniṣṭa | śvitīcī | ṛtasya | yoṣā | na | mināti | dhāma | ahaḥ-ahaḥ | niḥ-kṛtam | ācarantī