Sukta 1.123
अपान्यदेत्यभ्यन्यदेति विषुरूपे अहनी सं चरेते । परिक्षितोस्तमो अन्या गुहाकरद्यौदुषाः शोशुचता रथेन ॥
अपा॒न्यदेत्य॒भ्य१॒॑न्यदे॑ति॒ विषु॑रूपे॒ अह॑नी॒ सं च॑रेते । प॒रि॒क्षितो॒स्तमो॑ अ॒न्या गुहा॑क॒रद्यौ॑दु॒षाः शोशु॑चता॒ रथे॑न ॥
apā́nyád éty abhí anyád eti víṣurūpe ahánī sáṃ caretē | parikṣitós támo anyā́ guhā́kar ádyāud uṣā́ḥ śóśucatā ráthena ||
One departs and another comes on; the two, unlike in form, move together in their interchange. One makes darkness a secret cave; Dawn has shone out with her blazing chariot—revealing the passage from concealment to manifestation.
अप॑ । अ॒न्यत् । एति॑ । अ॒भि । अ॒न्यत् । ए॒ति॒ । विषु॑रूपे॒ इति॒ विषु॑ऽरूपे । अह॑नी॒ इति॑ । सम् । च॒रे॒ते॒ इति॑ । प॒रि॒ऽक्षितोः॑ । तमः॑ । अ॒न्या । गुहा॑ । अ॒कः॒ । अद्यौ॑त् । उ॒षाः । शोशु॑चता । रथे॑न ॥अप । अन्यत् । एति । अभि । अन्यत् । एति । विषुरूपे इति विषुरूपे । अहनी इति । सम् । चरेते इति । परिक्षितोः । तमः । अन्या । गुहा । अकः । अद्यौत् । उषाः । शोशुचता । रथेन ॥apa | anyat | eti | abhi | anyat | eti | viṣurūpeitiviṣu-rūpe | ahanī iti | sam | careteiti | pari-kṣitoḥ | tamaḥ | anyā | guhā | akaḥ | adyaut | uṣāḥ | śośucatā | rathena