Sukta 1.123
यदद्य भागं विभजासि नृभ्य उषो देवि मर्त्यत्रा सुजाते । देवो नो अत्र सविता दमूना अनागसो वोचति सूर्याय ॥
यद॒द्य भा॒गं वि॒भजा॑सि॒ नृभ्य॒ उषो॑ देवि मर्त्य॒त्रा सु॑जाते । दे॒वो नो॒ अत्र॑ सवि॒ता दमू॑ना॒ अना॑गसो वोचति॒ सूर्या॑य ॥
yád adyá bhā́gaṃ vi-bhájāsi nṛ́bhya uṣó devi martyá-trā su-jāte | devó no átra savitā́ damū́nā anā́gaso vocati sū́ryāya ||
When today you apportion the share to men, O Dawn, goddess well-born, here in the mortal field—then Savitṛ, the divine builder in us, declares us faultless for the Sun: fit to receive the higher light.
यत् । अ॒द्य । भा॒गम् । वि॒ऽभजा॑सि । नृऽभ्यः॑ । उषः॑ । दे॒वि॒ । म॒र्त्य॒ऽत्रा । सु॒ऽजा॒ते॒ । दे॒वः । नः॒ । अत्र॑ । स॒वि॒ता । दमू॑नाः । अना॑गसः । वो॒च॒ति॒ । सूर्या॑य ॥यत् । अद्य । भागम् । विभजासि । नृभ्यः । उषः । देवि । मर्त्यत्रा । सुजाते । देवः । नः । अत्र । सविता । दमूनाः । अनागसः । वोचति । सूर्याय ॥yat | adya | bhāgam | vi-bhajāsi | nṛ-bhyaḥ | uṣaḥ | devi | martya-trā | su-jāte | devaḥ | naḥ | atra | savitā | damūnāḥ | anāgasaḥ | vocati | sūryāya