Sukta 1.122
चत्वारो मा मशर्शारस्य शिश्वस्त्रयो राज्ञ आयवसस्य जिष्णोः । रथो वां मित्रावरुणा दीर्घाप्साः स्यूमगभस्तिः सूरो नाद्यौत् ॥
च॒त्वारो॑ मा मश॒र्शार॑स्य॒ शिश्व॒स्त्रयो॒ राज्ञ॒ आय॑वसस्य जि॒ष्णोः । रथो॑ वां मित्रावरुणा दी॒र्घाप्सा॒: स्यूम॑गभस्ति॒: सूरो॒ नाद्यौ॑त् ॥
catvā́ro mā maśarśā́rasya śíśvas tráyo rājñá ā́yavasasya jiṣṇóḥ | rátho vām mitrāvaruṇā dīrghā́psāḥ syū́ma-gabhastiḥ sū́ro nā́dyaut ||
Four are mine of Maśarśāra’s offspring, three of King Āyavasa the conquering. Your chariot, O Mitra and Varuṇa—far-reaching in its course, with well-yoked reins—has shone forth today like the sun.
च॒त्वारः॑ । मा॒ । म॒श॒र्शार॑स्य । शिश्वः॑ । त्रयः॑ । राज्ञः॑ । आय॑वसस्य । जि॒ष्णोः । रथः॑ । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । दी॒र्घऽअ॑प्साः॒ । स्यूम॑ऽगभस्तिः । सूरः॑ । न । अ॒द्यौ॒त् ॥चत्वारः । मा । मशर्शारस्य । शिश्वः । त्रयः । राज्ञः । आयवसस्य । जिष्णोः । रथः । वाम् । मित्रावरुणा । दीर्घअप्साः । स्यूमगभस्तिः । सूरः । न । अद्यौत् ॥catvāraḥ | mā | maśarśārasya | śiśvaḥ | trayaḥ | rājñaḥ | āyavasasya | jiṣṇoḥ | rathaḥ | vām | mitrāvaruṇā | dīrgha-apsāḥ | syūma-gabhastiḥ | sūraḥ | na | adyaut