Sukta 1.121
त्वमायसं प्रति वर्तयो गोर्दिवो अश्मानमुपनीतमृभ्वा । कुत्साय यत्र पुरुहूत वन्वञ्छुष्णमनन्तैः परियासि वधैः ॥
त्वमा॑य॒सं प्रति॑ वर्तयो॒ गोर्दि॒वो अश्मा॑न॒मुप॑नीत॒मृभ्वा॑ । कुत्सा॑य॒ यत्र॑ पुरुहूत व॒न्वञ्छुष्ण॑मन॒न्तैः प॑रि॒यासि॑ व॒धैः ॥
tvám āyasáṃ práti vartayo gór divó áśmānam úpa-nītam ṛ́bhvā | kútsāya yátra puru-hūta vánvan śúṣṇam anántaiḥ pari-yá̄si vadháiḥ ||
Thou turnest back the iron barrier from the Cow (the light), the stone of heaven that had been brought down—O strong one. There where, for Kutsa, O much-invoked, pursuing, thou goest around Śuṣṇa with endless smitings, until the obstruction is undone.
त्वम् । आ॒य॒सम् । प्रति॑ । व॒र्त॒यः॒ । गोः । दि॒वः । अश्मा॑नम् । उप॑ऽनीतम् । ऋभ्वा॑ । कुत्सा॑य । यत्र॑ । पु॒रु॒ऽहू॒त॒ । व॒न्वन् । शुष्ण॑म् । अ॒न॒न्तैः । प॒रि॒ऽयासि॑ । व॒धैः ॥त्वम् । आयसम् । प्रति । वर्तयः । गोः । दिवः । अश्मानम् । उपनीतम् । ऋभ्वा । कुत्साय । यत्र । पुरुहूत । वन्वन् । शुष्णम् । अनन्तैः । परियासि । वधैः ॥tvam | āyasam | prati | vartayaḥ | goḥ | divaḥ | aśmānam | upa-nītam | ṛbhvā | kutsāya | yatra | puru-hūta | vanvan | śuṣṇam | anantaiḥ | pari-yāsi | vadhaiḥ