Sukta 1.121
अष्टा महो दिव आदो हरी इह द्युम्नासाहमभि योधान उत्सम् । हरिं यत्ते मन्दिनं दुक्षन्वृधे गोरभसमद्रिभिर्वाताप्यम् ॥
अ॒ष्टा म॒हो दि॒व आदो॒ हरी॑ इ॒ह द्यु॑म्ना॒साह॑म॒भि यो॑धा॒न उत्स॑म् । हरिं॒ यत्ते॑ म॒न्दिनं॑ दु॒क्षन्वृ॒धे गोर॑भस॒मद्रि॑भिर्वा॒ताप्य॑म् ॥
aṣṭā́ mahó divá ā́do hárī ihá dyumnā-sá̄ham abhí yodhāná útsam | háriṃ yát te mandínaṃ dhukṣán vṛdhé go-rabhasám ádri-bhir vātā́pyam ||
Thou hast eaten the great (strength) of heaven; here thou settest thy two tawny powers to the battle for the wellspring that conquers splendours. When they milk out for thee the gladdening Hari (the force of delight) for increase—swift in the seizure of light—pressed by the stones, wind-driven in its rush.
अ॒ष्टा । म॒हः । दि॒वः । आदः॑ । हरी॒ इति॑ । इ॒ह । द्यु॑म्न॒ऽसह॑म् । अ॒भि । यो॒धा॒नः । उत्स॑म् । हरि॑म् । यत् । ते॒ । म॒न्दिन॑म् । धु॒क्षन् । वृ॒धे । गोऽर॑भसम् । अद्रि॑ऽभिः । वा॒ताप्य॑म् ॥अष्टा । महः । दिवः । आदः । हरी इति । इह । द्युम्नसहम् । अभि । योधानः । उत्सम् । हरिम् । यत् । ते । मन्दिनम् । धुक्षन् । वृधे । गोरभसम् । अद्रिभिः । वाताप्यम् ॥aṣṭā | mahaḥ | divaḥ | ādaḥ | harī iti | iha | dyumna-saham | abhi | yodhānaḥ | utsam | harim | yat | te | mandinam | dhukṣan | vṛdhe | go--rabhasam | adri-bhiḥ | vātāpyam