Sukta 1.121
पुरा यत्सूरस्तमसो अपीतेस्तमद्रिवः फलिगं हेतिमस्य । शुष्णस्य चित्परिहितं यदोजो दिवस्परि सुग्रथितं तदादः ॥
पु॒रा यत्सूर॒स्तम॑सो॒ अपी॑ते॒स्तम॑द्रिवः फलि॒गं हे॒तिम॑स्य । शुष्ण॑स्य चि॒त्परि॑हितं॒ यदोजो॑ दि॒वस्परि॒ सुग्र॑थितं॒ तदाद॑: ॥
purá̄ yát sú̄ras támaso ápītés tám adri-vaḥ phali-gáṃ hétim asyá | śúṣṇasya cit pári-hitaṃ yád ójo divás pári su-gráthitaṃ tád ā́ adaḥ ||
Before, when the Sun was swallowed by darkness, thou, O wielder of the stone, didst strike down his weapon, that wandering missile. Even the force of Śuṣṇa that had been set all around—tightly knotted about heaven—thou didst then take away and break open.
पु॒रा । यत् । सूरः॑ । तम॑सः । अपि॑ऽइतेः । तम् । अ॒द्रि॒ऽवः॒ । फ॒लि॒ऽगम् । हे॒तिम् । अ॒स्य॒ । शुष्ण॑स्य । चि॒त् । परि॑ऽहितम् । यत् । ओजः॑ । दि॒वः । परि॑ । सुऽग्र॑थितम् । तत् । आ । अ॒द॒रित्य॑दः ॥पुरा । यत् । सूरः । तमसः । अपिइतेः । तम् । अद्रिवः । फलिगम् । हेतिम् । अस्य । शुष्णस्य । चित् । परिहितम् । यत् । ओजः । दिवः । परि । सुग्रथितम् । तत् । आ । अदरित्यदः ॥purā | yat | sūraḥ | tamasaḥ | api-iteḥ | tam | adri-vaḥ | phali-gam | hetim | asya | śuṣṇasya | cit | pari-hitam | yat | ojaḥ | divaḥ | pari | su-grathitam | tat | ā | adar ity adaḥ