Sukta 1.121
स्विध्मा यद्वनधितिरपस्यात्सूरो अध्वरे परि रोधना गोः । यद्ध प्रभासि कृत्व्याँ अनु द्यूननर्विशे पश्विषे तुराय ॥
स्वि॒ध्मा यद्व॒नधि॑तिरप॒स्यात्सूरो॑ अध्व॒रे परि॒ रोध॑ना॒ गोः । यद्ध॑ प्र॒भासि॒ कृत्व्याँ॒ अनु॒ द्यूनन॑र्विशे प॒श्विषे॑ तु॒राय॑ ॥
svi-dhmá̄ yád vana-dhítir apasyá̄t sú̄ro adhvaré pári ródhanā góḥ | yád dha pra-bhá̄si kṛ́tvyāṃ ánu dyú̄n ánarviśe paśv-íṣe turá̄ya ||
When the well-kindled wood (the fuel of aspiration) works out its service, the Sun in the sacrifice moves around the pen of the Cow (the guarded light). And when thou shinest forth, following day after day the forming labour, thou comest for the unbroken increase and the swift gaining of the herds (powers).
सु॒ऽइ॒ध्मा । यत् । व॒नऽधि॑तिः । अ॒प॒स्यात् । सूरः॑ । अ॒ध्व॒रे । परि॑ । रोध॑ना । गोः । यत् । ह॒ । प्र॒ऽभासि॑ । कृत्व्या॑न् । अनु॑ । द्यून् । अन॑र्विशे । प॒शु॒ऽइषे॑ । तु॒राय॑ ॥सुइध्मा । यत् । वनधितिः । अपस्यात् । सूरः । अध्वरे । परि । रोधना । गोः । यत् । ह । प्रभासि । कृत्व्यान् । अनु । द्यून् । अनर्विशे । पशुइषे । तुराय ॥su-idhmā | yat | vana-dhitiḥ | apasyāt | sūraḥ | adhvare | pari | rodhanā | goḥ | yat | ha | pra-bhāsi | kṛtvyān | anu | dyūn | anarviśe | paśu-iṣe | turāya