Sukta 1.121
अध प्र जज्ञे तरणिर्ममत्तु प्र रोच्यस्या उषसो न सूरः । इन्दुर्येभिराष्ट स्वेदुहव्यैः स्रुवेण सिञ्चञ्जरणाभि धाम ॥
अध॒ प्र ज॑ज्ञे त॒रणि॑र्ममत्तु॒ प्र रो॑च्य॒स्या उ॒षसो॒ न सूर॑: । इन्दु॒र्येभि॒राष्ट॒ स्वेदु॑हव्यैः स्रु॒वेण॑ सि॒ञ्चञ्ज॒रणा॒भि धाम॑ ॥
ádha prá jajñe taráṇir mamattu prá rocy asyā́ uṣáso na sú̄raḥ | índur yébhir ā́ṣṭa sva-idúhavyaiḥ sruvéṇa síñcan jaráṇā abhi dhā́ma ||
Then is born the power that carries us over; let it grow drunk with its own might; it shines forth like the Sun on the Dawn. The Indu (Soma) with those offerings that draw of themselves, pouring with the ladle, drenches the established seats of the being.
अध॑ । प्र । ज॒ज्ञे॒ । त॒रणिः॑ । म॒म॒त्तु॒ । प्र । रो॒चि॒ । अ॒स्याः । उ॒षसः॑ । न । सूरः॑ । इन्दुः॑ । येभिः॑ । आष्ट॑ । स्वऽइदु॑हव्यैः । स्रु॒वेण॑ । सि॒ञ्चन् । ज॒रणा॑ । अ॒भि । धाम॑ ॥अध । प्र । जज्ञे । तरणिः । ममत्तु । प्र । रोचि । अस्याः । उषसः । न । सूरः । इन्दुः । येभिः । आष्ट । स्वइदुहव्यैः । स्रुवेण । सिञ्चन् । जरणा । अभि । धाम ॥adha | pra | jajñe | taraṇiḥ | mamattu | pra | roci | asyāḥ | uṣasaḥ | na | sūraḥ | induḥ | yebhiḥ | āṣṭa | sva-iduhavyaiḥ | sruveṇa | siñcan | jaraṇā | abhi | dhāma