Sukta 1.121
तुभ्यं पयो यत्पितरावनीतां राधः सुरेतस्तुरणे भुरण्यू । शुचि यत्ते रेक्ण आयजन्त सबर्दुघायाः पय उस्रियायाः ॥
तुभ्यं॒ पयो॒ यत्पि॒तरा॒वनी॑तां॒ राध॑: सु॒रेत॑स्तु॒रणे॑ भुर॒ण्यू । शुचि॒ यत्ते॒ रेक्ण॒ आय॑जन्त सब॒र्दुघा॑या॒: पय॑ उ॒स्रिया॑याः ॥
túbhyaṃ páyo yát pitárāv ánītāṃ rá̄dhaḥ su-rétas turáṇe bhuraṇyú̄ | śúci yát te rékṇa á̄yajanta sabaḥ-dúghāyāḥ páya usriyá̄yāḥ ||
To thee the fostering milk and the plenitude that the two parents brought—pure seed of force for the swift energy that bears us through. And the bright riches that they offered to thee: the milk of the strong-yielding luminous Cow (the stream of illumined nourishment).
तुभ्य॑म् । पयः॑ । यत् । पि॒तरौ॑ । अनी॑ताम् । राधः॑ । सु॒ऽरेतः॑ । तु॒रणे॑ । भु॒र॒ण्यू इति॑ । शुचि॑ । यत् । ते॒ । रेक्णः॑ । अय॑जन्त । स॒बः॒ऽदुघा॑याः । पयः॑ । उ॒स्रिया॑याः ॥तुभ्यम् । पयः । यत् । पितरौ । अनीताम् । राधः । सुरेतः । तुरणे । भुरण्यू इति । शुचि । यत् । ते । रेक्णः । अयजन्त । सबःदुघायाः । पयः । उस्रियायाः ॥tubhyam | payaḥ | yat | pitarau | anītām | rādhaḥ | su-retaḥ | turaṇe | bhuraṇyū iti | śuci | yat | te | rekṇaḥ | ayajanta | sabaḥ-dughāyāḥ | payaḥ | usriyāyāḥ