Sukta 1.121
अस्य मदे स्वर्यं दा ऋतायापीवृतमुस्रियाणामनीकम् । यद्ध प्रसर्गे त्रिककुम्निवर्तदप द्रुहो मानुषस्य दुरो वः ॥
अ॒स्य मदे॑ स्व॒र्यं॑ दा ऋ॒तायापी॑वृतमु॒स्रिया॑णा॒मनी॑कम् । यद्ध॑ प्र॒सर्गे॑ त्रिक॒कुम्नि॒वर्त॒दप॒ द्रुहो॒ मानु॑षस्य॒ दुरो॑ वः ॥
ásya máde svaryàṃ dā ṛtá̄yāpí̄vṛtam usriyá̄ṇām ánīkam | yád dha pra-sárge tri-kakúp ni-vártad ápa drúho mánuṣasya dúro vaḥ ||
In this ecstasy of thy force, grant the radiant Light that belongs to the Truth— the face of the shining cows (rays) that was held back and covered over. For when, in the forward surge, the three-peaked power turns back (the obstruction), it drives away the human falsehoods and opens out the doors for you.
अ॒स्य । मदे॑ । स्व॒र्य॑म् । दाः॒ । ऋ॒ताय॑ । अपि॑ऽवृतम् । उ॒स्रिया॑णाम् । अनी॑कम् । यत् । ह॒ । प्र॒ऽसर्गे॑ । त्रि॒ऽक॒कुप् । नि॒ऽवर्त॑त् । अप॑ । द्रुहः॑ । मानु॑षस्य । दुरः॑ । व॒रिति॑ ॥अस्य । मदे । स्वर्यम् । दाः । ऋताय । अपिवृतम् । उस्रियाणाम् । अनीकम् । यत् । ह । प्रसर्गे । त्रिककुप् । निवर्तत् । अप । द्रुहः । मानुषस्य । दुरः । वरिति ॥asya | made | svaryam | dāḥ | ṛtāya | api-vṛtam | usriyāṇām | anīkam | yat | ha | pra-sarge | tri-kakup | ni-vartat | apa | druhaḥ | mānuṣasya | duraḥ | varit i