Sukta 1.121
नक्षद्धवमरुणीः पूर्व्यं राट् तुरो विशामङ्गिरसामनु द्यून् । तक्षद्वज्रं नियुतं तस्तम्भद्द्यां चतुष्पदे नर्याय द्विपादे ॥
नक्ष॒द्धव॑मरु॒णीः पू॒र्व्यं राट् तु॒रो वि॒शामङ्गि॑रसा॒मनु॒ द्यून् । तक्ष॒द्वज्रं॒ नियु॑तं त॒स्तम्भ॒द्द्यां चतु॑ष्पदे॒ नर्या॑य द्वि॒पादे॑ ॥
nákṣaddhávam aruṇī́ḥ pū́rvyaṃ rā́ṭ turó viśā́m áṅgirasām ánu dyū́n | tákṣad vájraṃ níyutaṃ tastámbhad dyā́ṃ catúṣpade naryā́ya dvípāde ||
He answered the ancient call—Arunī’s; the king, impetuous for the peoples, following the days of the Aṅgiras. He fashioned the yoked thunderbolt; he propped up heaven for the four-footed and for man, the two-footed.
नक्ष॑त् । हव॑म् । अ॒रु॒णीः । पू॒र्व्यम् । राट् । तु॒रः । वि॒शाम् । अङ्गि॑रसाम् । अनु॑ । द्यून् । तक्ष॑त् । वज्र॑म् । निऽयु॑तम् । त॒स्तम्भ॑त् । द्याम् । चतुः॑ऽपदे । नर्या॑य । द्वि॒ऽपादे॑ ॥नक्षत् । हवम् । अरुणीः । पूर्व्यम् । राट् । तुरः । विशाम् । अङ्गिरसाम् । अनु । द्यून् । तक्षत् । वज्रम् । नियुतम् । तस्तम्भत् । द्याम् । चतुःपदे । नर्याय । द्विपादे ॥nakṣat | havam | aruṇīḥ | pūrvyam | rāṭ | turaḥ | viśām | aṅgirasām | anu | dyūn | takṣat | vajram | ni-yutam | tastambhat | dyām | catuḥ-pade | naryāya | dvi-pāde