Sukta 1.121
स्तम्भीद्ध द्यां स धरुणं प्रुषायदृभुर्वाजाय द्रविणं नरो गोः । अनु स्वजां महिषश्चक्षत व्रां मेनामश्वस्य परि मातरं गोः ॥
स्तम्भी॑द्ध॒ द्यां स ध॒रुणं॑ प्रुषायदृ॒भुर्वाजा॑य॒ द्रवि॑णं॒ नरो॒ गोः । अनु॑ स्व॒जां म॑हि॒षश्च॑क्षत॒ व्रां मेना॒मश्व॑स्य॒ परि॑ मा॒तरं॒ गोः ॥
stambhī́ddha dyā́ṃ sá dharúṇaṃ pruṣāyad ṛbhúrvājā́ya dráviṇaṃ náro góḥ | ánu svajā́ṃ mahiṣáś cakṣata vrā́ṃ ménām áśvasya pári mātáraṃ góḥ ||
He propped up heaven and set the foundation; the R̥bhu pressed out the treasure for plenitude, the man of the Cow. The mighty one beheld the self-born; he saw the wide-working Menā—he encompassed the mother of the Cow, the mare’s (secret) source.
स्तम्भी॑त् । ह॒ । द्याम् । सः । ध॒रुण॑म् । प्रु॒षा॒य॒त् । ऋ॒भुः । वाजा॑य । द्रवि॑णन् । नरः॑ । गोः । अनु॑ । स्व॒ऽजाम् । म॒हि॒षः । च॒क्ष॒त॒ । व्राम् । मेना॑म् । अश्व॑स्य । परि॑ । मा॒तर॑म् । गोः ॥स्तम्भीत् । ह । द्याम् । सः । धरुणम् । प्रुषायत् । ऋभुः । वाजाय । द्रविणन् । नरः । गोः । अनु । स्वजाम् । महिषः । चक्षत । व्राम् । मेनाम् । अश्वस्य । परि । मातरम् । गोः ॥stambhīt | ha | dyām | saḥ | dharuṇam | pruṣāyat | ṛbhuḥ | vājāya | draviṇan | naraḥ | goḥ | anu | sva-jām | mahiṣaḥ | cakṣata | vrām | menām | aśvasya | pari | mātaram | goḥ