Sukta 1.121
कदित्था नॄँ: पात्रं देवयतां श्रवद्गिरो अङ्गिरसां तुरण्यन् । प्र यदानड्विश आ हर्म्यस्योरु क्रंसते अध्वरे यजत्रः ॥
कदि॒त्था नॄँ: पात्रं॑ देवय॒तां श्रव॒द्गिरो॒ अङ्गि॑रसां तुर॒ण्यन् । प्र यदान॒ड्विश॒ आ ह॒र्म्यस्यो॒रु क्रं॑सते अध्व॒रे यज॑त्रः ॥
kád itthā́ nṝ́ṃ pā́traṃ devayatā́ṃ śrávadgíro áṅgirasāṃ turaṇyán | prá yad ānáḍ víśa ā́ harmyásyorú kraṃsate adhvaré yajátraḥ ||
How indeed does he become the vessel of men who seek the gods—he who hears the Angiras’ songs and hastens? When he advances, he makes the peoples move forward; in the offering he strides wide into the home of the work.
कत् । इ॒त्था । नॄन् । पात्र॑म् । दे॒व॒ऽय॒ताम् । श्रव॑त् । गिरः॑ । अङ्गि॑रसाम् । तु॒र॒ण्यन् । प्र । यत् । आन॑ट् । विशः॑ । आ । ह॒र्म्यस॑ । उ॒रु । क्रं॒स॒ते॒ । अ॒ध्व॒रे । यज॑त्रः ॥कत् । इत्था । नॄन् । पात्रम् । देवयताम् । श्रवत् । गिरः । अङ्गिरसाम् । तुरण्यन् । प्र । यत् । आनट् । विशः । आ । हर्म्यस । उरु । क्रंसते । अध्वरे । यजत्रः ॥kat | itthā | nṝn | pātram | deva-yatām | śravat | giraḥ | aṅgirasām | turaṇyan | pra | yat | ānaṭ | viśaḥ | ā | harmyasa | uru | kraṃsate | adhvare | yajatraḥ