Sukta 1.121
त्वं नो अस्या इन्द्र दुर्हणायाः पाहि वज्रिवो दुरितादभीके । प्र नो वाजान्रथ्यो अश्वबुध्यानिषे यन्धि श्रवसे सूनृतायै ॥
त्वं नो॑ अ॒स्या इ॑न्द्र दु॒र्हणा॑याः पा॒हि व॑ज्रिवो दुरि॒ताद॒भीके॑ । प्र नो॒ वाजा॑न्र॒थ्यो॒३॒॑ अश्व॑बुध्यानि॒षे य॑न्धि॒ श्रव॑से सू॒नृता॑यै ॥
tvaṁ no asyā́ indra durhaṇā́yāḥ pā́hi vajrivo duritā́d abhī́ke | prá no vā́jān rathyò aśvabudhyān iṣé yandhi śrávase sū́nṛtāyai ||
O Indra, wielder of the thunder-force, protect us close at hand from this hard-to-overcome distress and from the crooked movement of error. Bring forward for us the vājas—plenitudes of effective force—swift for the journey, awakened like horses to the call, for our increase, for luminous fame, and for the true and happy speech that sets the being right.
त्वम् । नः॒ । अ॒स्याः । इ॒न्द्र॒ । दुः॒ऽहना॑याः । पा॒हि । व॒ज्रि॒ऽवः॒ । दुः॒ऽइ॒तात् । अ॒भीके॑ । प्र । नः॒ । वाजा॑न् । र॒थ्यः॑ । अश्व॑ऽबुध्यान् । इ॒षे । य॒न्धि॒ । श्रव॑से । सू॒नृता॑यै ॥त्वम् । नः । अस्याः । इन्द्र । दुःहनायाः । पाहि । वज्रिवः । दुःइतात् । अभीके । प्र । नः । वाजान् । रथ्यः । अश्वबुध्यान् । इषे । यन्धि । श्रवसे । सूनृतायै ॥tvam | naḥ | asyāḥ | indra | duḥ-hanāyāḥ | pāhi | vajri-vaḥ | duḥ-itāt | abhīke | pra | naḥ | vājān | rathyaḥ | aśva-budhyān | iṣe | yandhi | śravase | sūnṛtāyai