Sukta 1.121
त्वमिन्द्र नर्यो याँ अवो नॄन्तिष्ठा वातस्य सुयुजो वहिष्ठान् । यं ते काव्य उशना मन्दिनं दाद्वृत्रहणं पार्यं ततक्ष वज्रम् ॥
त्वमि॑न्द्र॒ नर्यो॒ याँ अवो॒ नॄन्तिष्ठा॒ वात॑स्य सु॒युजो॒ वहि॑ष्ठान् । यं ते॑ का॒व्य उ॒शना॑ म॒न्दिनं॒ दाद्वृ॑त्र॒हणं॒ पार्यं॑ ततक्ष॒ वज्र॑म् ॥
tvám indra náryo yā́ṃ ávo nṛ́̄n tíṣṭhā vā́tasya su-yújo váhiṣṭhān | yáṃ te kāvyá uśánā mandínaṃ dā́d vṛtra-háṇaṃ pā́ryaṃ tatakṣa vájram ||
Thou, O Indra, stand by the human ones with those helps that are heroic—yoked in harmony, the best bearers like the Wind. The gladdening power that the seer Uśanā Kāvya gave thee, he fashioned it into a far-reaching thunderbolt, a slayer of Vṛtra.
त्वम् । इ॒न्द्र॒ । नर्यः॑ । यान् । अवः॑ । नॄन् । तिष्ठ॑ । वात॑स्य । सु॒ऽयुतः॑ । वहि॑ष्ठान् । यम् । ते॒ । का॒व्यः । उ॒शना॑ । म॒न्दिन॑म् । दात् । वृ॒त्र॒ऽहन॑म् । पार्य॑म् । त॒त॒क्ष॒ । वज्र॑म् ॥त्वम् । इन्द्र । नर्यः । यान् । अवः । नॄन् । तिष्ठ । वातस्य । सुयुतः । वहिष्ठान् । यम् । ते । काव्यः । उशना । मन्दिनम् । दात् । वृत्रहनम् । पार्यम् । ततक्ष । वज्रम् ॥tvam | indra | naryaḥ | yān | avaḥ | nṝn | tiṣṭha | vātasya | su-yutaḥ | vahiṣṭhān | yam | te | kāvyaḥ | uśanā | mandinam | dāt | vṛtra-hanam | pāryam | tatakṣa | vajram