Sukta 1.121
अनु त्वा मही पाजसी अचक्रे द्यावाक्षामा मदतामिन्द्र कर्मन् । त्वं वृत्रमाशयानं सिरासु महो वज्रेण सिष्वपो वराहुम् ॥
अनु॑ त्वा म॒ही पाज॑सी अच॒क्रे द्यावा॒क्षामा॑ मदतामिन्द्र॒ कर्म॑न् । त्वं वृ॒त्रमा॒शया॑नं सि॒रासु॑ म॒हो वज्रे॑ण सिष्वपो व॒राहु॑म् ॥
ánu tvā mahí̄ pá̄jasī acakre dyā́vākṣā́mā madatām indra kárman | tváṃ vṛtrám āśáyānaṃ sirá̄su mahó vájreṇa sisvapo varā́hum ||
Following thee, the great luminous powers have taken their wheel; Heaven and Earth rejoice in thy work, O Indra. Thou didst smite Vṛtra lying in the channels, the vast boar, with the thunderbolt—opening the blocked ways.
अनु॑ । त्वा॒ । म॒ही इति॑ । पाज॑सी॒ इति॑ । अ॒च॒क्रे इति॑ । द्यावा॒क्षामा॑ । म॒द॒ता॒म् । इ॒न्द्र॒ । कर्म॑न् । त्वम् । वृ॒त्रम् । आ॒ऽशया॑नम् । सि॒रासु॑ । म॒हः । वज्रे॑ण । सि॒स्व॒पः॒ । व॒राहु॑म् ॥अनु । त्वा । मही इति । पाजसी इति । अचक्रे इति । द्यावाक्षामा । मदताम् । इन्द्र । कर्मन् । त्वम् । वृत्रम् । आशयानम् । सिरासु । महः । वज्रेण । सिस्वपः । वराहुम् ॥anu | tvā | mahī iti | pājasī iti | acakre iti | dyāvākṣāmā | madatām | indra | karman | tvam | vṛtram | āśayānam | sirāsu | mahaḥ | vajreṇa | sisvapaḥ | varāhum